2023-04-07 05:36:02 by ambuda-bot
This page has not been fully proofread.
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥
-
60
श्रु. भा. अथ अनन्यशरण: शरणमहं प्रपद्ये इति शब्दानामर्थं विवृणोति
पौराणिक 'वचनमुखेन' पितरम् इत्यादिना । गुरुपर्यन्तानां साधनत्वमुत्कटम् । दाराश्च
दृष्टसाधनम् । रत्नादीनामुपेयत्वमुत्कटम् ।
KRÜAKAVAKRÜAURUAUDVAKRUAŰRŰAURYAŬRUAŰRÜAWAYAURUA
शरणागतिगद्यम् -
र.र. - पितरम् इत्यादिकन्तु स्ववाक्यवन्निबन्धनसंवादमुखेन अनन्यशरणत्वादिकं
विशदीकृत्य वक्ष्यमाणफलप्रार्थनाप्रस्तावनात्मकमिति द्वयार्थस्य समुदितोक्तिः । तथा ह्यत्र
सोपाधिकभोग्यतदुपायत्यागं निरुपाधिकभोग्यतदुपायविशेषपरिग्रहं च स्पष्टयित्वा 'प्रसादय'
इत्यादिना 'सोढुम्' इत्यन्तेन 'उत्तरखण्डस्य दोषनिवृत्तिप्रार्थना संगृह्यते । पित्रादीनां त्यागोक्त्या
भृत्यादिचेतनान्तरत्यागः कैमुत्यसिद्धः । बन्धुशब्दः इह सम्बन्ध्यादिपर: । रत्नानि
इत्यादिकमुत्कटभोग्यत्वभोगसाधनत्वानाम् अचेतनान्तराणामुपलक्षणम् । चकारेण वा
अनुक्तसमुच्चयः । प्रियेषु हितेषु च मोक्षतदुपाय अनुपयुक्तेषु कुत्रचित् सङ्गोऽपि न
युक्तः इति ज्ञापनाय पितरम् इत्यादिविविधोक्तिः ।
1. वचनेन इ ।
-
एवं लोकसिद्धप्रियहितान्युदाहृत्य सर्वधर्मान् इत्यादिना शास्त्रवेद्यानि साधनानि
साध्यानि च आह । तत्र सर्वधर्मशब्दः सिद्धसाध्यरूपसपरिकरधर्मकार्त्स्यपरः । सर्वकामान्
इति हिरण्यगर्भादिपदपर्यन्तकाम्यविषयः । अक्षरशब्द इह आत्ममात्रानुभवगोचरः । धर्माणां
कामानां च उपयोगित्वेन वा पित्राद्युदाहरणम् । तच्च यथासंभवं द्रष्टव्यम् । पित्रादीनां
त्यागश्चात्र काम्यधर्मोपयोगितया अर्थकामोपयोगितया च अनुपादानम् । अत एव 'मातृदेवो
भव, पितृदेवो भव, आचार्यदेवो भव, (तै. उ. शि. ११) 'वृद्धौ च मातापितरौ'
(रा. अयो. ६३-३२) इत्याद्युक्त भगवदाज्ञानुपालनं न विरुध्यते । सर्वधर्मशब्देन
मोक्षसाधनभूतोपासनवर्गसङ्ग्रहेऽपि तन्निवृत्तौ 'विहितत्त्वाञ्चाश्रमकर्मापि' (ब्र.सू.३-४-३२)
2. खण्डस्थ अ ।