2023-04-07 05:36:02 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये ॥ ५ ॥
[द्वयमन्त्रेण भगवच्छरणागतिः भगवत्प्राप्तिविरोधिदूरीकरणम्, भगवत्प्रसादनं च]
'अत्र द्वयम्'- ॥ ६ ॥
59
श्रु.भा. त्वत् शब्देन प्रागुक्ताकार विशिष्टतया योग्यत्वमभिप्रेतम् ।
अवश्यकर्तव्यत्वाय पादग्रहणम् । अरविन्दशब्दश्च इह भोग्यत्वाय । 'युगलशब्देन'
द्विवचनाख्यानम् । 'अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः' (अहि.सं.३७-३०)
इत्यादिकमभिप्रेत्याह अहम् इति । प्रपद्ये इत्यन्तेन पूर्वखण्डो व्याख्यातः ।
YAYAÚRUAUPUNURÜAÜRÜAURYAURYAGRUAUKUKURYAGRUPURUA
र.र.अस्म्यहमेवम् । एतावताऽपि किं त्वया लब्धम् ? सर्वत्र हि शास्त्रार्थे
अधिकारोऽपेक्षित इत्यत्राह
अनन्यशरण इति ।
-
तत्त्वविदोऽनन्यप्रयोजनस्य मम सिद्धोपायान्तरं नास्ति; अहमस्म्यपराधानाम्',
(अहि.सं.३७-३०) 'न धर्मनिष्ठोऽस्मि' (स्तो. र. २२) इत्याद्युक्तावस्थाविशेषविदश्च मे
साध्योपायान्तरमपि नास्तीति प्रतिबुद्धोऽस्मि; अयमेव हि ममात्राधिकार इति भावः ।
इदन्तु व्याख्येयस्थोत्तमपुरुषाभिप्रेतमिति ज्ञापनाय, 'अहमपि न मम' शरणम्'
इति व्यञ्जनाय च अधिकोऽहंशब्दः । अथवा अनन्यशरण इत्युपायान्तरशून्यत्वम्, अहं
इति उपायभीरुत्वम्, अतिशङ्का राहित्यम् प्रयोजनान्तरतदुपायपरित्यागित्त्वम्,
मोक्षार्थप्रपत्त्युन्मुखत्वञ्च व्यज्यते । एतत्सूचितः कार्पण्यविस्तरः प्रतिवचनवाक्येषु
गद्यान्तरयोश्च द्रष्टव्यः । त्वत् इत्यादिना पूर्वखण्डपदक्रमानुसरणम् । त्वच्छब्दः
शरण्यत्वोपयुक्तसर्वाकारवैशिष्ट्यपरः । पादेत्यादिकं प्रागुक्तार्थम् ।
1. युगलशब्दः - इ ।
अत्र द्वयम् - इत्यस्य व्याख्यातप्रायमिति शेषः । तात्पर्यन्तु पूर्वमेवोक्तम् । यद्वा,
द्वयम् अर्थानुसन्धानेन सह एवमुक्तमिति वा; वक्तव्यमिति वा विवक्षितम् । वाक्यान्तरैः
'पुनः पुनः प्रपद्यते' इति तु नाशङ्कनीयम् । एकसाध्यसिद्ध्यर्थं प्रपत्त्यावृत्तेः प्रतिषेधात्,
इह साध्यान्तरायोगाच्च ।
१. अत्र द्वयम् - अत्र 'द्वयमन्त्रं' अनुसन्धेयमिति भावः ।
'
2. मे आ । 3. ज्ञापनाय आ ।
4. रहितत्वम् - आ ।