This page has not been fully proofread.

,
 
अथिंकल्पक! 'आपत्सख ! श्रीमन् ! नारायण !
 
अशरण्यशरण्य! अनन्यशरणः,
 
-
 
श्रु. भा. - अर्थिकल्पक कर्मधारयसमासः । यथा 'समेत्य प्रतिनन्द्य च' (रा. अयो.१६-२७)
इति । 'उदारास्सर्व एवैते' (भ.गी. ७-१८) इति च । अन्यथा तवेयं प्रथापि विहन्येतेति
भावः । गजेन्द्रादीनामिव आपन्नत्वमेव रक्ष्यत्वे हेतुमाह - आपत्सख इति । उक्तहेत्वभावेऽपि
 
मातरमपेक्ष्य रक्षितव्यमित्याह श्रीमन् इति । तया उपेक्षितोऽपि त्वामपेक्ष्य रक्षणीय
इत्याह - नारायण इति । सम्बन्धाभावेऽपि रक्षकान्तराभावात् रक्षणीयोऽहम् । त्वं हि
अगतीनां गतिरित्याह अशरण्य इति । ततः किं भवत इत्याह अनन्यशरण इति ।
BRUABRXXBRUBRUUUUUUUUUBRUARXX
 
-
 
58
 
र.र. - 'अर्थिनः कल्पद्रुमा यस्य सः अर्थिकल्पक' इति वा विवक्षितम्; यद्गीयते
'उदारास्सर्व एवैते' (भ.गी. ७-१८) इति । अभिमतपुरुषार्थदानार्थमर्थिनामुत्पादकः, शास्त्रादिमुखेन
अर्थित्वापादकश्चेति वा । एवं पूर्वोक्तस्याप्यौदार्यस्य अतिशयप्रदर्शने तात्पर्यादपुनरुक्तिः ।
 
1. आपत्सख ! काकुत्स्थ ! - इ ।
5. प्रयोजन इति नास्ति - आ ।
 
शरणागतिगद्यम्
 
'ज्ञातं मया वसिष्ठेन' (म.भा.स.९०-४२) इत्यादिकमनुसन्दधानः पाञ्चालीगजेन्द्रादि-
वदापन्नस्य अनन्यगतिकस्य ममैतामापदम् 'अवेक्ष्य रक्षितुमर्हसीत्याह- आपत्सख ! इति ।
आपदि सखिवत्संरक्षकेत्यर्थः । विश्वसनीयत्वस्त्रेहविषयत्वादिसूचनाय सखिशब्दः ।
शत्रुमपि हि 'तस्मात्परिश्रान्त इति व्यवस्य न त्वा शरैर्मृत्युवशं नयामि' (रा. यु.५९-१४३)
इत्यवोचत् । एवं द्वाभ्यां इष्टप्रापकत्वमनिष्टनिवर्तकत्वञ्च दर्शितम् । अथ तत्र
समानाभिप्रायतया 'नित्य मुक्तामखिलजगन्मातरं पुरस्कुर्वतो मे महान्तोऽप्यपराधाः क्षन्तव्या
इत्याह - श्रीमन् ! इति ।
 
सम्बन्धगुणविभूतिप्रयोजनव्यापारास्ते मदुपेक्षया मन्दफला मा भूवन्, अतः आत्मानं
नातिवर्तेथाः इत्याह - नारायण ! इति । उत्तरखण्डस्थापेक्षया पूर्वं श्रीमन् ! इत्याद्युक्तम्;
इह तु पूर्वखण्डस्थापेक्षया उक्तैस्स्वभावैः फलितमाह अशरण्यशरण्य इति । स्मर्यते हि
'अगतीनां गतिर्भवान्' (वि.ध. ४-४९) इति । अत एव अनालोचितेत्यादिना न पुनरुक्तिः ।
तत्र हि तारतम्यानादरे तात्पर्यम् । एतत्सर्वं व्याख्येयविवक्षितप्राप्यप्रापकाकारप्रपञ्चनम् ।
 
2. प्रथा
 
-
 
इ । 3. अपेक्ष्य
 
आ। 4. त्वया नित्य - आ ।