This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
57
 
अखिलजगत्स्वामिन् ! अस्मत्स्वामिन्!
 

सत्यकाम! सत्यसङ्कल्प ! सकलेतरविलक्षण!
 

श्रु. भा. - नैसर्गिकशेषत्वे सत्यपि जगतः स्वगुणैर्भूयः शेषत्वमापादितम् इत्याशयेनाह
अखिल इति । यथा 'गुणैर्दास्यमुपागतः' (रा. कि. ४- १२)
इति । न केवलं सामान्येन
शेषत्वम् । किन्तु जन्मविशेष' रुचिविशेष'[^1] प्रदानादिभिर्मम एवमवस्थत्त्वं त्वयैवोपपादितमित्यभि-
प्रायेणाह - अस्मत् स्वामिन् इति । सत्यकाम अकिञ्चनरक्षणं हि परिपूर्णकृत्यमिति
भावः । तच्च अनायाससाध्यमित्याह - सत्यसङ्कल्प इति । सकलेतरविलक्षण

एवम्भूतस्स्त्वं न रक्षसि चेत् कस्तवान्येभ्योऽनीदृग्भ्यो विशेष इत्याशयः ।
 
GRGAURYAKRÜPÜRÜPÜRÜNÜRÜNÜRÜNÜRÜKÜRÜNÜRÜSÜRÜSÜPÜR
 

र.र. - एवमेव हि शेषभूतानां स्वतन्त्रस्वामिना त्वयैव यथेष्टं स्वमुद्दिश्य विनियोगः
क्रियते इत्याह - अखिलजगत्स्वामिन् इति । इष्टानिष्टप्रदान साधारणेऽस्मिन् मद्विनियोगे
किं तवायातमित्यत्राह - अस्मत्स्वामिन् इति । मदाचार्यसन्ततिसाम्मुख्येन मम एवंविध-
त्वत्सम्बन्धज्ञानाद्यवस्थाप्रदानरूपो- पकारे प्रवृत्तेन त्वया शेषपूरणं कार्यमिति भावः ।
 
-
 
-
 

परिपूर्णतया पूर्वोपकारप्रत्युपकारनिरपेक्षस्य तव अकिञ्चननित्यसापेक्षसं- श्रित-
रक्षणमात्मीयनित्य [^2]गुणपरित्राण[^2]मिति सूचयति - सत्यकाम! इति । सर्वशक्तेस्तव
नित्यसूरिवर्गे मन्निवेशनमीषत्करम्; 'न हि त्वद्गतं केनापि 'हन्तुं[^3] शक्यं' इत्याह - सत्यसङ्कल्प !
इति । तथाऽपि अपेक्षिता र्थमन्यः कश्चिदाश्रियतामित्यत्राह- सकलेतरविलक्षण! इति । 'विष्णुपोतं

विना नान्यत्किञ्चिदस्ति परायणम्' (वि.ध.१-५९) 'भवतां कथ्यते सत्यं विष्णुरेकः परायणम्'
(वि.ध.१-५९) इत्यादिभिरन्येभ्यस्तव मोक्षप्रदत्वादि रूपं विशेषं पश्यन्नहं मुमुक्षुः कमन्यं
आश्रयेयम् । न हि परतन्त्रः कश्चित् स्वतन्त्रकृत्यं प्रार्थनीयः, न च त्वं परतन्त्र इति भावः ।
 
-
 

यद्यर्थिनं मां नाद्रियसे; कथं तवौदार्यप्रथा जीवेदित्यभिप्रायेणाह- अर्थिकल्पक इति ।
अर्थी च कल्पकश्चेति विग्रहः । अर्थिनां कल्पद्रुम इति वा । उक्तं हि; 'स सर्वानथिनो
दृष्ट्वा समेत्य प्रतिनन्द्य'[^4] च' (रा. अयो. १६-२७) इति ।
 

 
 
 
[^
1]. 'रुचिविशेष' इति अत्र नास्ति - इ ।
[^
2]. गुणत्रयपरित्राण - आ ।
[^
3]. विनिहन्तुम् - आ ।

[^
4]. प्रतिवन्द्य- आ ।