This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
57
 
अखिलजगत्स्वामिन् ! अस्मत्स्वामिन्!
 
सत्यकाम! सत्यसङ्कल्प ! सकलेतरविलक्षण!
 
श्रु. भा. - नैसर्गिकशेषत्वे सत्यपि जगतः स्वगुणैर्भूयः शेषत्वमापादितम् इत्याशयेनाह
अखिल इति । यथा 'गुणैर्दास्यमुपागतः' (रा. कि. ४ १२) इति । न केवलं सामान्येन
शेषत्वम् । किन्तु जन्मविशेष'रुचिविशेष'प्रदानादिभिर्मम एवमवस्थत्त्वं त्वयैवोपपादितमित्यभि-
प्रायेणाह - अस्मत्स्वामिन् इति । सत्यकाम अकिञ्चनरक्षणं हि परिपूर्णकृत्यमिति
भावः । तच्च अनायाससाध्यमित्याह - सत्यसङ्कल्प इति । सकलेतरविलक्षण
एवम्भूतस्स्त्वं न रक्षसि चेत् कस्तवान्येभ्योऽनीहग्भ्यो विशेष इत्याशयः ।
 
GRGAURYAKRÜPÜRÜPÜRÜNÜRÜNÜRÜNÜRÜKÜRÜNÜRÜSÜRÜSÜPÜR
 
र.र. - एवमेव हि शेषभूतानां स्वतन्त्रस्वामिना त्वयैव यथेष्टं स्वमुद्दिश्य विनियोगः
क्रियते इत्याह अखिलजगत्स्वामिन् इति । इष्टानिष्टप्रदानसाधारणेऽस्मिन् मद्विनियोगे
किं तवायातमित्यत्राह - अस्मत्स्वामिन् इति । मदाचार्यसन्ततिसाम्मुख्येन मम एवंविध-
त्वत्सम्बन्धज्ञानाद्यवस्थाप्रदानरूपोपकारे प्रवृत्तेन त्वया शेषपूरणं कार्यमिति भावः ।
 
-
 
-
 
परिपूर्णतया पूर्वोपकारप्रत्युपकारनिरपेक्षस्य तव अकिञ्चननित्यसापेक्षसंश्रित-
रक्षणमात्मीयनित्य गुणपरित्राणमिति सूचयति सत्यकाम! इति । सर्वशक्तेस्तव
नित्यसूरिवर्गे मनिवेशनमीषत्करम्; 'न हि त्वगतं केनापि 'हन्तुं शक्यं' इत्याह - सत्यसङ्कल्प !
इति । तथाऽपि अपेक्षितार्थमन्यः कश्चिदाश्रियतामित्यत्राह सकलेतरविलक्षण! इति । 'विष्णुपोतं
विना नान्यत्किञ्चिदस्ति परायणम्' (वि.ध.१-५९) 'भवतां कथ्यते सत्यं विष्णुरेकः परायणम्'
(वि.ध.१-५९) इत्यादिभिरन्येभ्यस्तव मोक्षप्रदत्वादिरूपं विशेषं पश्यन्नहं मुमुक्षुः कमन्यं
आश्रयेयम् । न हि परतन्त्रः कश्चित् स्वतन्त्रकृत्यं प्रार्थनीयः, न च त्वं परतन्त्र इति भावः ।
 
-
 
यद्यर्थिनं मां नाद्रियसे; कथं तवौदार्यप्रथा जीवेदित्यभिप्रायेणाह- अर्थिकल्पक इति ।
अर्थी च कल्पकश्चेति विग्रहः । अर्थिनां कल्पद्रुम इति वा । उक्तं हि; 'स सर्वानथिनो
दृष्ट्वा समेत्य प्रतिनन्द्य' च' (रा. अयो. १६-२७) इति ।
 
1. 'रुचिविशेष' इति अत्र नास्ति - इ । 2. गुणत्रयपरित्राण - आ । 3. विनिहन्तुम् - आ ।
4. प्रतिवन्द्य- आ ।