This page has not been fully proofread.

56
 
'अशेष- चराचरभूत निखिल नियमन निरत !
- - -
अशेष-चिदचिद्वस्तु - शेषिभूत ! निखिल-जगदाधार!
 
श्रु.भा. आनुकूल्याभावेऽपि प्रातिकूल्यनिवृत्तिरपेक्षितेति भगवदाशयं बुद्धाऽऽह -
अशेष इति । तन्निवृत्तिरपि त्वदायत्तेति भावः ।
 
-
 
ननु 'किं' भवद्रक्षणमावश्यकृत्यम् इति शङ्कायामाह - अशेषचिदचित् इति ।
±रक्ष्यापेक्षापि त्वदधीनेत्याह निखिल इति 'कस्यापेक्षया चिदचिद्वस्तुजातं धृतम्'
इति भावः ।
 
GRUAUPA
 
शरणागतिगद्यम् -
 
KAUAHAUAGDUAUDUAÜRÜNÜDÜR
 
BRUABRUA
 
र.र. - हिततमं त्वमेव जानासि; त्वदायत्तानुकूल्यस्य 'शेषवृत्तिविधानेऽपि न त्वं सुप्तो
न वा मृत: 3' (वि.ध.) सर्वज्ञस्य ते, 'त्वयाऽपि लब्धं भगवन्निदानीं, (स्तो. र. ३४) 'यदि
मे न दयिष्यसे' (स्तो. र. ५०) इत्यादिकं न विज्ञापनीयमित्यभिप्रायेणाह - अनवरत
इति । अनवरतनिखिलशब्दाभ्यां ज्ञानस्य कालतो विषयतश्च सङ्कोचो व्युदस्तः ।
 

 
'त्वमेवैवं कुरुष्व माम्', 'कुरुष्व मामनुचरम्' (रा. अयो. ३१-२४) इत्यादिन्यायेन
त्वदधीनव्यापारस्य मे त्वयैव प्रातिकूल्यनिवर्तनादिकमपि कार्यमित्याह - अशेषचराचर
इति । निखिलशब्द: स्वरूपस्थित्यादिनियन्तव्यकार्त्स्यपरो सार्वकालिकनियमनकार्न्यपरो
वा । आगमैः आचार्यादिभिः अन्तरात्मतया च बहुप्रकारं हि नियमनम् । न ह्यविधेयं ते
किञ्चित्, येन मे अभिमतं प्रतिबन्धाद्विलम्बेत, अलभ्यं वा स्यादिति भावः । परिपूर्णस्य
मे त्वदङ्गीकारेण किञ्चित् प्रयोजनमित्यत्राह - अशेषचिदचित् इति । न हि मदेकवर्जं
तव सर्वशेषित्वम्, अतो ममाप्यतिशये 'तव चार्थः प्रकल्पते' (रा. अयो. ३१ २४) इति भावः ।
 

 
1. अखिल - इ । 2. रक्षापेक्षादिकम् - इ ।
 
तथाऽपि यथावस्थितरक्षापेक्षा तव नास्ति, अतः कथं त्वं रक्षणीयः ? इति
शङ्कायामाह निखिलजगदाधार! इति । गुणादिवत् त्वदपृथक्सिद्धविशेषणस्य
ममापेक्षामन्तरेणैव मत्सत्तादिकं त्वयैव रक्ष्यते, तत्साफल्यार्थं रक्षापेक्षादिकमपि त्वयैव
कारयितव्योऽहम्; न हि त्वदधीनसत्ताकस्य मे त्वन्निरपेक्षप्रवृत्तिः संभवतीत्यभिप्रायः ।
 
3. किं त्वं सुप्तोऽथ वा गतः
 
-
 
अ।