This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
55
 
अनालोचितविशेषाशेष-लोकशरण्य ! प्रणतार्तिहर!

आश्रितवात्सल्यैकजलधे! अनवरतविदित- निखिल - -भूतजात-
याथात्म्य !
 

श्रु. भा. - उक्तविशेषणफलमाह - अनालोचित इति । विशेष:- जन्मवृत्त- गुणतारतम्यम्;
'लोकस्तु भुवने जने' (अ.को. ३) एवं गुणवत्तां निश्चित्याह प्रणतार्तिहर इति । स्वस्यैवं-
विधबुद्धियोगप्रदं वरदमभिप्रेत्यैवमुक्तम् । तस्मिन् विशेषतः आविर्भूतं स्वस्मिन् विशेषतः
कार्यकरञ्च गुणमाह आश्रित इति । उपायत्वौपयिकगुणेषु वात्सल्यगुणो हि स्वस्मिन्
विशेषतः कार्य- करोऽभिमतः, तथापि त्वय्यपि किञ्चित्कारोऽवश्यमपेक्षित इति भगवदाशयं

बुध्वाऽऽह - अनवरत इति । 'तव सार्वज्ञं न कतिपयविषयम्, नापि कादाचित्कञ्च,
कथं ममाशक्तत्वमविदितम्' इति भावः ।
 
GAUAGAYAGRUAGRÜABRUAGAGAURUAURUAURUAKRÜAÜRÜPÜRÜN
 
.र.र.
 

र.र. -
वायस-वानर-राक्षसादिविशेषानादरेणाङ्गीकुर्वतस्ते मादृशजनेऽपि गुणवृत्तादिनिकर्षो न
त्यागकारणमित्याह - अनालोचितविशेष इति । अत्र विशेषशब्दविवक्षितं अनालोचितगुणगण!
इति श्रीवैकुण्ठगद्ये व्यञ्जितम् । प्रपत्तेस्सर्वाधिकारत्वमपि अनेनैव प्रकाशितम् ।
 
1
 

'दुर्गसंसारकान्तारमपारमभिधावताम् ।
 

एक: कृष्णनमस्कारो मुक्तितीरस्य देशिकः' ॥ (वि.ध.१-१८)

'प्रणम्य कृष्णं सहसा' (वि.ध. ४-३५) 'एकोऽपि कृष्णे सुकृतप्रणामः' (म.भा. आ.४६-१२३)
इत्यादिषूक्तं अल्पयत्नसाद्यत्वमाह - प्रणतार्तिहर! इति । अनेन स्वस्यैवं विधावस्थाहेतुरवतार-
विशेषोऽप्यनुसंहितः । उक्तं हि स्वयमेव, 'निरस्तेतरभोगाशो वरदं शरणं गतः' (हस्तिगिरिमाहात्म्यम्)
इति
इति। अत्र प्रणतशब्दः प्रकृतानुगुण्यात्, 'प्रपन्नार्तिहरं विष्णुं' (वि.पु.१-९-३७) इत्याद्यनुसाराच्
प्रकृष्टप्रह्वीभावयुक्तप्रपन्नविषयो वा ।
 

प्रस्तुतावतारे व्यक्ततमं स्वस्मिन्नुपकारकतमञ्च वात्सल्यगुणं पूर्वं द्विरुक्तमपि 'मित्रभावेन
सम्प्राप्तम्' (रा.यु.१७-८३) 'दोषो यद्यपि तस्य स्यात्' (रा.यु.१७-८३) इत्यादिस्मरणाय
पुनराह - आश्रित इति । वात्सल्य गुणोदधौ निग्रहादिकं निमग्नं भवतीत्यभिप्रायेणैकशब्दः,
अत एव हि सर्वज्ञत्वादौ स्थितेऽप्यविज्ञातृत्वाद्युक्तिः । उपायान्तरं स्वीक्रियतामित्यत्र

'अस्मान्वेत्थ परान्वेत्थ' (म.भा.उद्यो.७२-१०१) इति प्रकारेण मादृशानामकिञ्चनानां अधिकर्तव्यं