This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
53
 
र.र. -
 
अपार - -कारुण्य-सौशील्य-

श्रु.भा. - एवम् उपायोपेयत्त्वसाधारणाकारा उक्ताः । अथ उपायत्वैकान्त- गुणा
उच्यन्ते अपार इत्यादिना । कारुण्याद्यगोचरे मय्यपि कार्यकरं कारुण्यादिकमिति
अपारशब्दस्य भावः । कारुण्यादिकं पूर्ववत् ।
 
GALAUAYAGRUAGRÜPÜRYAGRÜAGPUPURYAVRUAKAUAVAVAUTUR

रऱ.-
'अनन्तो देशकालादिपरिच्छेदविवर्जितः ।
 

महाविभूतिरित्युक्तो व्याप्तिस्सा महती यतः' ॥ (पाञ्चरात्रम्) इत्यत्रापि

नियन्तृत्वेन व्याप्तिर्विवक्षिता । श्रीमन् ! श्रिया नित्यसंयुक्तस्त्वं त्वदभिमत- माश्रितकृत्यं
निर्वहसि । नारायणसम्बन्धमनुसन्धाय दायविभागन्यायेन स्वामितया स्वार्थं स्वयं स्वात्मानं
प्रापयितासीति भावः । वैकुण्ठनाथ ! दिव्यपर्यङ्कसुखासिकायां निजपादमूलसेवां
दातुमवस्थितोऽसीति त्रिष्वपि पक्षेषु मुखभेदैः पुनरुक्तिपरिहारः सिद्धः ।
 

अथ शरणस्य समर्पितसर्वभरस्वीकरणानुगुणाः स्वस्य चाधिकारोपाय निष्पादका
उक्ताश्चानुक्ताश्चाकारा अष्टादशभिः पदैः निष्कृष्यानुसन्धीयन्ते; तत्र स्वापराध-स्वनिकर्ष-
स्वहेयसम्बन्ध-स्वरक्षण-विसंवादादिदोषपरिहारो पयुक्तानां गुणविशेषाणां प्रकर्षः प्रथममुच्यते-
अपार इति । कारुण्यस्या पारत्वम् अवश्यदण्डनीयेष्वस्मादृशेष्वपि प्रवृत्तेः । यथा 'वधार्हमपि

काकुत्स्थ: कृपया पर्यपालयत्' (रा.सु.३८-३४) इति । स्वेनाप्युक्तं 'मच्छरैस्त्वं रणे शान्तस्ततः
पूतो भविष्यसि' (रा.यु. ४१-६९) इति, 'गच्छानु- जानामि रणार्दितस्त्वम्' (रा.यु.५९-१४४)
इत्यादि च ।
 

न्यूनाधिकत्वदर्शनजनितावज्ञासाध्वसपरिहारार्थमिह सौशील्योक्तिः । तस्याऽपारत्वं
विशेषज्ञेषु विरिञ्चादिषु विष्ण्वाद्यवतारैः, अनभिज्ञेषु च मत्स्यकूर्मादिषु तत्तत्स्वरूपैरवतारैः
निर्विशेषनीरन्ध्रसंश्लेषात् ।
 

वात्सल्यस्यापारत्वं 'रिपूणामपि वत्सलः' (रा.यु.५०-५६) इत्युक्तम् । औदार्यस्यापारत्वं
अर्थिषु उदारत्ववचनहेतुभूतमर्थितप्रदाने स्वप्रयोजनाभि सन्धिमत्त्वम्, संश्रितेभ्यः सविभूतिकं
स्वात्मानं दत्वा तदनुबन्धिषु पशुमनुष्यपक्ष्यादिष्वप्यविश्रान्तत्वं वा ।