This page has been fully proofread once and needs a second look.

शरणागतिगद्यम् -
 
रऱ.र.
 
-नित्यविभूतियोगं शुद्धसृष्ट्युपादानत्त्वञ्च प्रभूतोपकारकत्त्वज्ञापनाय विशेषतस्सूचयति
वैकुण्ठनाथ इति । इदं सम्बुद्धिद्वयं वा; तदा तु तत्त्वादि साक्षात्कारप्रतिघातकरहितदेशादि-
सम्बन्धी वैकुण्ठः । अपेक्षितसिद्ध्यर्थं सर्वैरपि याचनीयस्तत्प्रदानादौ ईश्वरश्च नाथः ।
 
-
 

एतत् 'सत्यकाम' इति पदाष्टकं प्राप्याकारनिष्कर्षार्थमिति पक्षमपि प्रगुणी कुर्मः ।
'सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता' (तै. उ. आन. १) इति कामशब्दोदितानां
ब्रह्मगुणानामपि प्राप्यतोक्तिमभिप्रेत्याह सत्यकाम इति । प्राप्यानुप्रविष्टनित्यविग्रह-
विभूतिद्वययोगेऽपि केचित् सत्यकामशब्दं प्रमाणयन्ति । यद्वा, मुमुक्षूणां भोक्तव्यसृष्टेः
भोगस्य चोपकरणतया मता नित्याः पदार्था अस्य सन्तीति भावः । प्राप्तिदशायां
विभूतिद्वयेऽप्यपूर्वानन्त भोग्यस्रष्टृत्वमाह - सत्यसङ्कल्प इति । प्रकृष्टभोग्यतयाऽपि निरतिशय

बृहत्त्वमाह - परब्रह्म इति । 'ब्रह्म वेद ब्रह्मैव भवति' (मुं.उ.३-२-९) इत्यादिभिरभेदापत्तिशङ्कां
परिहरन् बद्धमुक्तविलक्षणतया कैङ्कर्योद्देश्यत्व सम्भवमाह - पुरुषोत्तम इति ।
कैङ्कर्यस्थानोपकरणादि'समृद्धिमत्व [^1]
माह महाविभूते इति । सपत्नीकस्य कैङ्कर्योद्देश्यत्वं
सूचयति - श्रीमन् इति । सम्बन्धगुणविभूतिव्यापारैः सर्वैरपि भोग्यत्वातिशयं प्रकाशयितुमाह

नारायण इति । सूरिसेव्य विग्रहविभूतिविशिष्टस्य[^2] देवयानपथिक विश्रमस्थानत्वमभिसन्धायाह
वैकुण्ठनाथ इति ।
 
-
 
-
 
52
 
-
 
1. महत्त्व आ। 2. विग्रहविशिष्टस्य आ ।
 
-
 

अत्र तृतीयमपि पक्षं ब्रूमः - प्रकृतस्य शरण्यस्य स्वीकृतसर्वभरनिर्वहण- क्रमः
सत्यकामादिभिरष्टभिः पदैरेव बोध्यते । सत्यकाम! - काम इह प्रपन्नेभ्यो निरतिशयानन्द-
प्रदानेच्छा । तस्याः सामर्थ्याविनाभावात् सत्यत्त्वं, तच्चामोघत्त्वम् । सत्यसङ्कल्पोऽत्र
प्रतिबन्धनिवर्तनविषयः । 'सर्वपापेभ्यो मोक्षयिष्यामि' (भ.गी.१८-६६) इति हि त्वमेवात्थेति
भावः । परब्रह्मभूत ! - निरतिशयबृहत्त्वविशिष्टस्त्वं स्वाश्रितानपि ज्ञानतो भोगतश्च
परमसाम्यपर्यन्तं बृंहयिताऽसि । पुरुषोत्तम ! - 'यो मामेवमसम्मूढः' (भ.गी.१५-१९)

इत्यादिना 'त्वद्विदाम्'[^3] कृतकृत्यत्वोक्तया त्वन्निर्वाह्यसर्वभरत्वं त्वयैव सूचितम् । 'यद्वा
षणुदाने' (धा.पा.१४६५) पुरु सनोतीति पुरुषः । बहुप्रदेभ्य स्सर्वेभ्य उत्तमत्त्वात् पुरुषोत्तमः ।
 

महाविभूते! विभूतिरिह विभवनम्, प्रभवनं, नियमनमित्यर्थः । तस्य महत्वं

अपरिच्छिन्नत्वम्; संश्रितान् संसारकारागृहान्निर्गमय्य तदर्थतया सर्वं नियच्छसीति भावः ।
 
-
 

 
 
 
[^1]. महत्त्व- आ।
[^2]. विग्रहविशिष्टस्य- आ
[^
3]. तत्त्वविदां -आ ।
 
-