2023-04-25 08:36:04 by jayusudindra
This page has been fully proofread once and needs a second look.
महाविभूते!
श्रीमन् ! नारायण ! वैकुण्ठनाथ !
श्रु. भा. उपादनभूतस्य कथं जगद्वैलक्षण्यं इति शङ्कायां घटकमर्थमाह महाविभूते इति । शरीरकतया विभूतिमत्त्वमभिप्रेतम् । विभूतिं प्रति शेषत्वं द्विनिष्ठं इत्यभिप्रायेणाह श्रीमन् इति । महविभूते इति शरीरकतया विभूति- मत्त्वसाधारणोक्तमर्थं विविच्य दर्शयिष्यन् दोषास्पृष्टत्वसिद्धये लीलाविभूति शरीरकत्वमाह - नारायण इति ।
'नराज्जातानि तत्त्वानि नाराणीति ततो विदुः' इति निर्वचनमिहाभिप्रेतम् ।
नित्यविभूतियोगे समाख्यां स्पष्टयति- वैकुण्ठनाथ इति । 'कुठि-गतिप्रति- घाते' (धा.पा.३४३) इति धातुः । ज्ञानप्रतिघातिकर्मादिरहितास्सूरयो विकुण्ठाः, तत्सम्बन्धिदेशो वैकुण्ठाख्यः ।
र.र. - नन्वेवं भेदाभेदश्रुत्योः विरोधादन्यतरबाधस्स्यादित्यत्र घटकश्रुति- सिद्धमाहमहाविभूते इति । विभूतिशब्दोऽत्र नियन्तव्यपरः । 'यदण्डम्' (स्तो. र. १७) इति श्लोकार्थो इहानुसन्धेयः । शरीरतया विभूतित्वादत्र स्वरूपभेदेऽपि सामानाधिकरण्यं मुख्यमिति भावः । एवं सर्वविलक्षणस्य सर्वनियन्तुर्जगद्व्यापार लीलायां[^1] ' स्ववल्लभासामरस्यमभिप्रेत्याह
श्रीमन् इति । 'विभूतिं प्रति शेषित्वं द्विनिष्ठम्' इत्यभि प्रयन्नाह[^2] - श्रीमन् इति; इति व्यासार्याः । विभूतीनामाधेयत्त्वादिनियमैः शरीरत्त्वं व्यञ्जयितुमाह - नारायण इति ।
ननु स्वरूपतो बृहत्वमेव निमित्तमस्तु; किं गौरवेण इति चेत् - न ; ब्रह्म- गुणादेरपि (धर्मभूतज्ञानस्य) स्वरूपेण बृहत्त्वात् ब्रह्मशब्दवाच्यत्वप्रसङ्गात् । तर्हि गुणतो बृहत्त्वमेव अस्तु; निमित्तमिति चेत्र; शब्दशक्तेरसङ्कोचस्य स्वतः प्राप्तत्वात् । स्वरूपे च बृहत्त्वसद्भावात् 'सत्यं ज्ञानमनन्तं ब्रह्म' इति हि श्रुतिः । गुणतो बृहत्वं नाम सद्वारकं बृहत्त्वम् । गुणद्वारा हि वत् । (श्रु.प्र.)
अन्तरत्वाधिकरणे स्पष्टमेव भाषितम् । (३-३-३५) 'यत्साक्षादपरोक्षात् ब्रह्म य आत्मासर्वान्तरः' इति श्रुतिव्याख्याने ब्रह्मशब्दस्य परमात्मासाधारण- त्वेऽपि प्रत्यगात्मन्यपि क्वचित् उपचरितप्रयोगदर्शनात् तद्व्यावृत्त्या
परमात्मप्रतिपत्तये 'यत् साक्षाद्ब्रह्म' इति विशेषणं क्रियते इति । पङ्कजशब्दे पङ्कजनिकर्तृत्वरूपप्रवृत्तिनिमित्तस्य अन्यत्र सद्भावात् रूढिनिमित्तं पद्म- त्वञ्च आश्रीयत इति स शब्द: योगरूढः । प्रकृते स्वरूपतो गुणतश्च बृहत्वं मूलप्रकृति जीवचतुर्मुखादिषु नास्त्येव । प्रवृत्तिनिमित्तैकदेशबृहत्त्वमात्र- मादाय प्रयोगोपपत्तेः नात्यन्तमुख्यता । नापि लक्षणा 'गंगायां घोषः' इत्यादाविव सर्वथा प्रवृत्तिनिमित्तस्यात्यागात् । किन्तु, प्रवृत्तिनिमित्तैकदेश- मादायैव पञ्चसु व्यक्तिषु प्रयोगः । अतोऽत्र ब्रह्मशब्दस्य नात्यन्तमुख्यतेति सिद्धान्तिनाम् आशयः ।
[^1[. लीलायाः - आ ।
[^2]प्रायेणाह - अ ।