This page has been fully proofread once and needs a second look.

सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम !
 
米米米米米米米米米米米米米米米米米米米米米米米米米米米米米粉
 
-
 
50
 

श्रु. भा. -अथ उक्ताकारेषु समाख्याष्टकं प्रमाणयति ! सत्यकाम इति -
 
नित्यविभूतिमत्त्वसिद्धिः । सत्यसङ्कल्प इति लीलाविभूतिमत्त्वसिद्धिः । निमित्तमात्रत्वं
 
सत्यसङ्कल्पतया सिद्धमिति उपादानतामप्यभिप्रयन्नाह पर- ब्रह्मभूत इति । उपादानत्वेऽपि
चिदचिद्गतदोषास्पृष्टत्वमाह पुरुषोत्तम इति
 
GAGAGRUAGRUAGDGAGAYAGAYAGAGAWAGAGAUZURUAURVAUSUA
 
शरणागतिगद्यम् -
 
-
 
-
 
र.र. - एवं नारायणशब्दोक्तं शरण्यत्वं यथानिरुक्ति सम्बोधितम् । अथ सत्यकाम
'इत्यादेः पूर्वापरपुनरुक्तिपरिहाराय' 'प्रागुक्तेष्वेवार्थेषु इदं समाख्याष्टकं प्रमाणीक्रियते' इति केचित्
व्याचख्युः । तत्र चतुर्णां समाख्यात्वं व्यक्तम् । सत्यकामादिशब्दानां कथञ्चित्समाख्यात्वं कल्प्यम् ।
 

परब्रह्मभूत इत्यत्र तु 'ब्रह्म'[^१]शब्दमात्रं समाख्या । अन्यथाऽपि नामत्व- कल्पने गौरवं
स्यात् । अत्र परशब्देन विशेषणन्त्वौपचारिक प्रयोगव्यवच्छे- दार्थम् । सत्यकाम-सत्यसङ्कल्पशब्दौ
पूर्वं विशेषणमात्रपरतयोक्तौ । इह तु तत्प्रमाणतया यथाश्रुतितत्तद्विशिष्टविषयतयेति
विशेषः । लीलापदसूचितं जगन्निमित्तत्वमपि सत्यसङ्कल्पत्वेन स्थापितम् ।
जगुदुदयादिलीलात्वद्योति- तमुपादानत्वन्तु परब्रह्मभूत इत्यनेनाभिप्रेतम् । 'सर्वं खल्विदं
ब्रह्म तज्जलान्' (छां.उ.३-१४-१) इत्याद्यनुसारात् । एवमभेदश्रुतिबलादुपादानत्वेन अभिमतस्य
ब्रह्मणस्स्वरूपपरिणामपक्षेण चिदचिद्तसर्वदोषान्वयश्शंक्येत इति तत्परिहाराय स्वयमेव गीतं
श्रुत्यर्थमाह पुरुषोत्तम इति । अत्र पञ्चम्यादि विभक्तित्रयेऽपि[^1] समासो द्रष्टव्यः ।
 

 
 
[^
]. ब्रह्म - अनेन ब्रह्मशब्दो यौगिक इति स्पष्टम् । 'बृहत्वात् बृंहणत्वाञ्च तद्ब्रह्मेत्यभिधीयते' । इत्युपबृंहणानुसारात्
'बृंहेर्नोच्च' इत्युणादि सूत्रेण वृद्ध्यर्थक 'बृहि' धातोः इदित्वान्नुमागमे तस्याकारादेशः, मन् प्रत्ययश्च । ततः
यणादेशे 'ब्रह्म' शब्दः निष्पन्नः । इदञ्च सूत्रमुपलक्षार्थं बृहधातोरपि, अगागम मन् प्रत्यययोः ।
 
-
 

अत्र श्रीभाष्यम् - 'बृहत्त्वञ्च स्वरूपेण, गुणैश्च यत्र अनवधिकातिशयं, सोऽस्य मुख्योऽर्थः । स च
सर्वेश्वर एव । अतो ब्रह्मशब्दः तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः'
(जिज्ञासाधिकरणे) इति योगरूढपक्षः निरस्तः ।
 

तदुक्तं श्रुतप्रकाशिकायाम् - ब्रह्मशब्दप्रयोगविषयपञ्चष- (जीव-जाति-

-कमलासन-मूलप्रकृति-प्रभृति) व्यक्तिषु,
अनुवृत्त अन्यव्यावृत्ताकारा- दर्शनात् अनेकशक्तिकल्पने प्राप्ते, अनन्यथासिद्धस्य प्रयोगस्य शक्ति कल्पकत्वात्
ब्रह्मशब्दप्रयोगविषयेष्वन्येषु च बृहत्वगुणलेशयोगेन प्रयोग स्यान्यथासिद्धत्वाञ्च्च न अनेकशक्तिकल्पनं
युक्तम् । तस्मात् पुरुषोत्तम एव प्रवृत्तिनिमित्तपोष्कल्यवति मुख्यत्वम् । अन्यत्र औपचारिकत्वञ्च इति ।
 

 
 
[^
1]. विभक्तिषु त्रिष्वपि
 
-आ।