This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
49
 
-
 
स्वशेषतैकस्वभाव-प्रकृति-पुरुष-
कालात्मक - विविध-विचित्रानन्त-
भोग्य-भोक्तृवर्ग-भोगोपकरण-भोगस्थानरूप-
निखिल-जगदुदयविभवलयलील !
 
श्रु. भा. - शब्दस्पर्शादिरूपेण वैविध्यम् । तदवान्तर भिदया। विचित्रत्वम् ।
निखिलशब्देन ब्रह्मादिव्यावृत्तिः ।
 
URMAURUAVRÜAURUPURUPURUAUKUPURUPURUPURUPUPUPURUS
 
र.र. - क्षणलवादिषु कालावच्छेदेषु कालात्मकत्वम् । तेषां जगच्छब्देन ग्रहणं अभूदस्ति-
भविष्यतीत्यादिरूपेण जगद्विशेषणत्वप्रतीत्यनुसारात् । व्याप्तस्यापि कालस्य लीलाविभूतिमात्रे
पठनम् । 'कालं स पचते तत्र न कालस्तत्र वै प्रभुः' (म.भा.मोक्ष.१९६-९) 'कलामुहूर्तादिमयश्च
कालो न यद्विभूतेः परिणामहेतुः' (वि.पु.४-१-८४) इति नित्यविभूतेरकालकाल्यत्वज्ञापनार्थम् ।
तत्र तत्तदनित्यसद्भावेऽपि लीलाविभूतिवत्कालनियमो नास्तीति विशेषः । भोग्यप्रभृति
सर्वं प्रत्येकं विविधम् । तत्तदवान्तरविशेषविवक्षया विचित्रत्वोक्तिः; आश्चर्यतया वा;
'जगदेतन्महाश्चर्यं रूपं तस्य महात्मनः' (वि.पु. ५-११-७) इति ह्युच्यते । एकैकवर्गव्यक्तीनां
असङ्ख्यातत्वादनन्तत्वम् । भोग्यभोगोपकरणादीनि पूर्ववत् । प्राकृतत्वादिरिह विशेषः ।
भोगश्चात्र सुखदुःखानुभवात्मकः ।
 
महदादीन्यनन्तब्रह्माण्डादीनि च सङ्गृह्णता निखिलशब्देन कतिपयजगत्कारण-
विरञ्चादिव्यावृत्तिः । निखिलजगदुदयादेः एकैकस्यैव ब्रह्मलक्षणत्वे सम्भवत्यपि
व्यष्टिसृष्ट्यादिनीत्या संभवन्तीं भिन्नकर्तृकत्वशङ्कां निरसितुं इह त्रितयोक्तिः ।
जगन्निष्ठानामुदयविभवलयानां परमपुरुषलीलात्वोक्तिः सर्वशरीरतया तत्तद्विशिष्टरूपेण
तत्तदवस्थो भवतीत्युपादानत्वसूचनार्था । परिपूर्णतया प्रयोजननिरपेक्षस्य कथं जगद्व्यापार
इति शङ्कानिरसनाय लीलाशब्दः । 'क्रीडतो बालकस्येव (वि. पु. १-२-१८) 'क्रीडा
हरेरिदं सर्वम्', (म.भा. शां. २०६-५९) 'हरे ! विहरसि क्रीडाकन्दुकैरिव जन्तुभिः
(म.भा.सभा.९०-३१) 'लोकवत्तु लीलाकैवल्यम्' (ब्र.सू. २-१-३३) इत्यादिभिस्तत्सिद्धिः ।
लीलारूपप्रयोजनवतोऽपि अवाप्तसमस्तकामत्वं सर्वत्राविहतेच्छत्त्वम् ।
 
1. भिदा - इ ।