2023-04-07 05:35:58 by ambuda-bot
This page has not been fully proofread.
48
स्वसङ्कल्पानुविधायि स्वरूप स्थिति- प्रवृत्ति-
शरणागतिगद्यम् -
श्रु. भा. - अथ लीलाविभूतिः - 'नियमनञ्च धारणसिद्धम्, स्वसङ्कल्प इति ।
शेषत्वमाह- स्व इति । कालस्य प्रकृत्यनन्तरानुक्तिः प्रकृतिपुरुषयोस्संयोग वियोगहेतुत्वात् ।
'तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरम्' इति ह्युच्यते ।
KAUAKSUAUSÜÂURUAUAYAGRUAURYAVRUAWAYAGRÜNÜRÜAKAUA
-
र.र. एवं नित्यविभूतियोग उक्त; अथ तत्प्रतिद्वन्द्विलीलाविभूतियोगं वदन् 'कारणं तु
ध्येयः' (अथर्व.२) 'यो ब्रह्माणं विदधाति पूर्वम्' (श्वे.उ.६-१८) इत्यादिप्रसिद्धस्य मुमुक्षुसमाश्रयणीयस्य
'यतो वा इमानि भूतानि जायन्ते, (तै.उ.भृ.१) 'जन्माद्यस्य यतः' (ब्र.सू. १-१-२) इत्याद्युक्तं
लक्षणमप्याह - स्वसङ्कल्प इति । बद्धानां ईश्वराभिमतापरिज्ञानेन प्रायशः प्रवृत्तिः इति ज्ञापयितुं
अचित्समभिव्याहारेण सर्वचिदचित्सा धारणं' सङ्कल्पानुविधायित्वम् उक्तम् । प्रकृत्यादीनां
स्वरूपस्थित्योरीश्वरनित्येच्छावशेन नित्यसिद्धत्वमिहाभिप्रेतम् । प्रवृत्तिषु तु
सङ्कल्पजन्यत्वम् । प्रकृतेस्स्वरूपं त्र्यैगुण्येन निरूप्यम् । संसारिपुरुषस्य तु
सङ्कुचितज्ञानत्वेन । कालस्य तु कलामुहूर्तादिमयत्वेन । त्रयाणां स्थितिः पूर्ववत् ।
प्रवृत्तिः व्यापारः । अत्र प्रकृतिग्रहणं प्राकृतानामप्युपलक्षणम् । तेन नारायणशब्देन
'नराज्जातानि तत्त्वानि' (म.भा.आनु.१८६-७) इत्याद्युक्तनिरुक्तिस्सूच्यते । प्रकृत्यात्मक
जगदुक्त्या वा कार्यतत्वसङ्ग्रहः । लीलाविभूतेरशेषत्वान्यशेषत्वभ्रमसम्भवस्थानत्वात्
तदपनोदनायाऽत्र स्वशेषतैकस्वभावत्वमुक्तम् । शेषत्वस्य शरीरलक्षणत्वसिद्धयै
यावत्सत्ताकत्वमिह विवक्षितम् । तथा निरुपाधिकान्यशेषत्वराहित्यं च । अत्र
शरीरस्वभावेष्वाधेयत्वादिषु सङ्कल्पानुविधायित्वोक्त्या नियाम्यत्वं शाब्दम् ।
आधेयत्वमप्यभिप्रेतम् ।
1. निगमनं धारणं च इ ।
प्रकृत्यात्मकत्वं भोग्यभोगोपकरणदौ । समष्टिव्यष्टिपुरुषविभागरूपतया
पुरुषात्मकत्वं भोक्तृवर्गे । अत्र भोक्तृत्वं कर्मोपाधिकम् । परमपदे तु निरुपाधिकभोक्तॄणां
सतामप्यनुक्तिः तत्रत्यानां स्वाधीनस्वार्थभोक्तृत्वभ्रमराहित्याभिप्रायेण ।
2. धारणं परिज्ञानेन आ ।