This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
निरतिशय इति अनुत्तमवत् ।
 
नित्य-निरवद्य-निरतिशय - श्रीवैकुण्ठनाथ !
 
श्रु. भा. - नित्यं नित्यसंस्थानम् । निरवद्य इति अवद्यादयो न तत्रत्यानामित्यर्थः ।
 
-
 
47
 
GRUAUSYAURUAURUPURU GRUPURUAKRÜSURU
 
AURBRUABUA
 
यथोक्तं महाभारते -
 
र.र. निरतिशयत्वं स्थानगुणैस्सर्वैः सर्वस्थानातिशायित्वम् ।
'रम्याणि कामचाराणि विमानानि सभास्तथा' (म.भा.शां.१९६-४) । इत्युपक्रम्य 'एते वै
निरयास्तात! स्थानस्य परमात्मनः' (म.भा.शां. १९६-६) इति ।
 
'आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति ।
 
ईदृशं परमं स्थानं निरयास्ते च तादृशाः' ॥ (म.भा.शां.९६-११) इति च ।
गतिप्रतिघाते' (धा.पा.६५) इति धातुः, गतिरवगतिः, ज्ञानप्रतिघातक-
कर्मप्रसङ्गरहिता नित्यसूरयो विकुण्ठाः, तैस्सम्बन्धादत्र वैकुण्ठशब्दः अप्राकृतस्थानपरः ।
 
'कुठि
 
'विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
 
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' ॥ (कठ. उ. १-३-९)
इत्यादिभिस्तत्सिद्धिः । अत्र हि व्यतिरेकविभक्तिस्वारस्यात् 'परमे व्योमन्' (तै. आर.२-८,९-६)
इत्यादिभिः ऐकार्थ्याच्च परमपदशब्दो न परमात्मस्वरूपपरः । 'नाकस्य पृष्ठमारुह्य गच्छेत्
ब्रह्म सलोकताम्', (महाना.उ. ५ - २०) 'दिव्यं स्थानं अजरञ्चाप्रमेयम्, (म.भा.मौस.५-२७)
'एकान्तिनः' इत्यारभ्य 'तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः' (वि.पु.१-६-३९)
इत्यादिभिः स्थानविशेषस्य स्पष्टोक्तेः, न चैतेषां अण्डान्तर्वर्तिभगवल्लोकविषयत्वम्;
तदन्तर्वर्तिनां सर्वेषां उत्पत्तिविनाशश्रवणात्, एतस्य च नित्यत्वाक्षरत्वाजरत्वोक्तेः, 'अण्डं
भित्वा तथोद्गता' (ल.तं.) इत्यादिभिरण्डबहिर्भूतत्वसूचनाञ्च । तथाऽपि त्रिगुणान्तर्भावो
अस्त्विति चेन्न; तमस्तत्वादर्वाचां सुबालोपनिषदि प्रलयप्रतिपादनात्, मुक्तगतौ
शीर्षकपालप्रभृति तमःपर्यन्तं तत्त्वभेदेन गन्तव्यदेशाभिधानात् । 'आदित्यवर्णं तमसः
परस्तात्'; (तै.आर.३-४०-१३) 'तमसः परमो धाता शङ्खचक्रगदाधरः' (रा.यु.११८-१५)
इत्यादेश्च । नाथः - ईश्वरः । 'नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु' इति नाथतेरैश्वर्यार्थत्ववचनात्
तस्मिन् दिव्यदेशे भगवत ऐश्वर्यं स्वेनाप्यपन्होतुमशक्यमिति भावः ।
 
1. अविद्यादयो - इ ।