This page has been fully proofread once and needs a second look.

46
 
स्वाभिमत - -विविध-विचित्रानन्त-
भोग्य-भोगोपकरण-भोगस्थान-समृद्ध, अनन्ताश्चर्य-
अनन्तमहाविभव- अनन्तपरिमाण-

श्रु. भा. - विविधत्वं जातिभेदः । 'एकैकस्य[^1] व्यक्तयानन्त्यं अनन्त शब्दार्थः ।
आश्चर्यतारूपेण आनन्त्यं वा । विभवः -आयतनाद्वहिः भोग्य समृद्धिः ।

स्रक्चन्दनादिव्यतिरिक्त± रथादि[^2]-समृद्धिर्वा
 
KRÜPÜRÜNÜRÜAURYAWRUAÜZÜPÜRÜAURUAHAHAÜRÜPÜRÜNÜGSUT
 
शरणागतिगद्यम् -
 
1. एकत्र इ ।
 
-
 

र.र. - तथा च तद्विशेषणतयैव सप्तम्यन्तत्वेन श्रीवैकुण्ठगद्येऽपि एतत्पठितम् । परमयोगिनः
साक्षात्परब्रह्मस्वरूपाः श्वेतद्वीपवासिनः ।
 

'ये तु मुक्ता
 
भवन्तीह नरा भरतसत्तम! ।
 

तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥ (म.भा.शां.३३५-१४) इति
हि स्मर्यते । परमव्योम्नस्स्वरूपं शुद्धसत्वमयम् । तमसः परस्यापि परमव्योम-

स्वरूपस्यापरिच्छेद्यत्वमूर्ध्वादिभागेन व्यवस्थाप्यम् । तत्स्वभावो भोग्यतम- त्त्वादिरूपः ।
विविधशब्दो भोग्यप्रभृतिषु त्रिष्वप्यन्वेतव्यः । भोग्यम् अप्राकृतं स्वाश्रयं शब्दादि
तदुपस्थापकतया स्वीकृतानि भोगोपकरणानि । भोगस्थानानि क्रीडापर्वतादीनि ।
स्वरूपगुणसंस्थानादि वैचित्र्यातिशयेन नित्यमपूर्ववदनुभाव्यतया अनन्ताश्चर्यत्वम् ।
 

 
2. धनादि- इ ।
 

प्रत्येकं महद्भिरसङ्ख्यातैश्च रत्नभूषणभद्रासनादिभिर्योगात् अनन्तमहा- विभवत्त्वम् ।
पर्यङ्कविद्यादिषु हि विचित्रनदीह्रदसभादिविशिष्टं मुक्तगम्यं स्थानमुपदिश्यते । 'सहस्रस्थूणे
विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते' (जै. ब्रा. ४-३८४) इति च तलवकाराः अधीयते ।
पूर्वोक्तापरिच्छेद्यत्वे हेतुरनन्तपरिमाणत्वम् । अनित्यसावद्यस्थानान्तरव्यवच्छेदार्थमिह
नित्य
नित्य निरवद्यत्वोक्तिः । अत्र पञ्चोपनिषत्प्रतिपाद्यानां भूतानां तत्सङ्घातरूपाणाञ्च

केषाञ्चिद्भगवन्नित्येष्टत्वेन नित्यत्वमविरुद्धम् । त्रिगुणवत्कर्मिणां भगवत्स्वरूप-
तिरोधानादिहेतुत्वाभावान्निरवद्यत्वम् ।
 

 
 
[^1]. एकत्र -इ ।
[^2]. धनादि- इ ।