This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
45
 
अनन्त'कल्याण'गुणगण-शेष- 'शेषाशन'-
गरुड- प्रमुख - नानाविधानन्त-
परिजन - परिचारिका परिचरित-चरणयुगल !
 
परमयोगिवाङ्मनसापरिच्छेद्य-स्वरूप - स्वभाव-
-
 
श्रु. भा. - शेषाशन: - सेनापतिः । छत्रचामरपादुकापतद्ग्रहधारणादिभेदेन नानाविधा: ;
तत्र एकैककोटिनिविष्टाश्च अनन्ताः । विमलाद्यभिप्रायेणोक्तम् परिचारिका इति ।
 
उक्तस्स्वरूपरूपगुणविभूषणादीनां परत्वसौलभ्यसाधारणत्त्वात् ; दिव्यलोकविशेषात्पूर्वं
तदुभयमाह - परम इति । परमस्वरूपम् - नियन्तृस्वरूपम् ; परमस्वभावः - सौलभ्यम् ।
निरूपकादन्यो निरुपाधिकधर्मः - स्वभावः । परमयोगि इत्यादिकं देशविशेषणं वा । तथा श्रीवैकुण्ठ-
गद्योक्तेः । तदा, स्वरूपं - सन्निवेशविशेषविशिष्टद्रव्यम् । तस्य भोग्यताप्रकारः स्वभावः ।
 
-
 
GAYAKAVAURUAURUAKRÜAURUAURUAŰRUAURUTUTUTURVAKRUA
 
र. र.
 
तत्तत्सेवाविशेषनियतासङ्ख्यातावान्तरे च्छादिवैचित्र्याभिप्रायेण
अनन्तगुणगणशब्दः । शेषादीनां विशेषाः 'तया सहासीनम्' (स्तो. र. ३९) इत्यादि श्लोकेषु
द्रष्टव्याः । आसन-वाहन-सेनेश-द्वारपालादिभेदेन नानाविधत्वम् । अनन्तत्वं
इहासङ्ख्यातत्वम् । इह परिजना: छत्रधारकादयः । परिचारिका: अनुग्रहविमलाद्याः ।
-
तथा कान्तिवारुणीसूत्रवतीरुद्रासुकीर्तिप्रभृतयः शेषादिपत्न्यः । ता अपि हि तेषां यथार्हं
सान्तःपुरस्वामि सेवाविशेषार्था एव । एवं 'गुणैर्दास्यमुपागतः' (रा. कि. ४-१२) इति
न्यायेन स्वामिविग्रहगुणैरपि कैङ्कर्ये प्रेरितत्वमभिप्रेत्याह परिचरितचरणयुगल इति ।
 
-
 
एवन्नित्यविग्रहादियुक्तस्य नित्यसूरिसेव्यस्य मुक्तगम्यनिवासस्थानमाह - परम इति ।
परमयोगिवाङ्मनसापरिच्छेद्यस्वरूपस्वभाव इति सम्बुध्यन्तं केचिद्व्याचक्षते; तदा पूर्वोक्तानां
सर्वेषां परत्वसौलभ्योपयोगित्वज्ञापनाय तदुभयं स्वरूपस्वभावशब्दाभ्यां विवक्षितम्;
स्वरूपनिरूपकं निरूपितस्वरूपविशेषकञ्चेति धर्मवर्गद्वयं वा । एवं सति पूर्वोक्तमेव
मुखान्तरेण अनवसरे निगमितं स्यात् । इतो वरमनुक्तपरमव्योमप्रकर्षकथनम् ।
 
१. शेषाशन: - 'त्वदीय भुक्तोज्झित शेषभोजिना' इति हि प्रसिद्धिः स्तोत्ररत्ने ।
1. 'कल्याण' इति नास्ति - आ । 2. सेवार्थाः - आ