2023-04-07 05:35:58 by ambuda-bot
This page has not been fully proofread.
44
-
स्वच्छन्दानुवृत्ति स्वरूप- स्थिति- प्रवृत्तिभेद-
-
अशेष- शेषतैकरतिरूप - नित्य-निरवद्य- निरतिशय ज्ञान - क्रियैश्वर्यादि-
शरणागतिगद्यम् -
-
श्रु.भा. - अथ परिजनः, - सजातीय विजातीयव्यावर्तकाकारविशिष्टं स्वरूपम् ;
तस्य प्रतिनियतकालसम्बन्धः - स्थितिः, ईश्वरेच्छां ज्ञात्वानुवर्तते नित्यसिद्धाः, संसारिणस्तु
तदनभिज्ञाः, तत्सङ्कल्पात्प्रवर्तन्त इति भिदा अभिप्रेता । भेदः - स्वरूपस्थितिप्रवृत्तिविशेषः,
यद्वा संसारिभ्यो नित्यानां व्यावर्तकधर्माः, स्वच्छन्दानुवृत्तिस्वरूपस्थितिप्रवृत्तय इत्यर्थः
नित्यनिरवद्य इति मुक्तव्यावृत्तिः । क्रिया - कैङ्कर्यम् । ऐश्वर्यम् - देहेन्द्रियादि नियमनम् ।
।
URUAHAYAÜRÜNÜDÜZURUAURUPURUAURUAHAUAGAYAGAYAGAYA
-
र.र. क्वचिद्वल्लभतया क्वचिन्नायकतया निर्देशस्य तत्तद्देव्यनुगुणं तात्पर्यं ग्राह्यम् ।
एवं देवीपर्यन्तैः आम्रेडितातिशयस्य परमभोग्यस्य अरण्यचन्द्रिकात्वव्युदासाय
नित्यभोक्तृवर्गमाह स्वच्छन्द इति । 'सूरयो हि' स्वाम्यभिमतं स्वयं साक्षात्कृत्या आत्मात्मीयं
सर्वं तदर्थं विनियुज्य तमनुवर्तन्त इति ज्ञापनाय स्वच्छन्दानुवृत्ति इत्युक्तम् । स्वशब्दः
पूर्वोक्तवदीश्वरविषयः । स्थितिः इह स्वरूपस्य सर्वकालानुवृत्तिः । प्रवृत्तिः एषां कैङ्कर्यरूपो
व्यापारः । स्वरूपादीनां भेदः तत्तत्प्रतियोग्यपेक्षया विलक्षणव्यवहारहेतुभूताकारः ।
अशेष इत्यादिकं व्याख्यातम् । स्वरूपनित्यत्वे सर्वात्मसाधारणेऽपि सूरिषु विशेषत
उक्तेन 'सदा' सर्वज्ञत्वलक्षणेन नित्यत्वेन मुक्तव्यावृत्तिः, नित्यनिरवद्यतया वा । निरवद्यत्वं
हि दुःखादिदोषगन्धरहितत्वम् । यथोक्तम् 'हताखिलक्लेशमलैस्स्वभावतः' (स्तो.र.४१) इति ।
ज्ञानादिविशेषणं वा नित्यनिरवद्यत्वम्; तेन कैङ्कर्ये स्वाधीनस्वार्थ कर्तृत्वभोक्तृत्व-
भ्रमराहित्यसिद्धिः ।
ज्ञानस्य निरतिशयत्वं ईश्वरज्ञानवत्सर्वविषयत्वम् । क्रियाया ऐश्वर्यस्य च
निरतिशयत्वं कैडूर्यमात्रे स्थाप्यम् । सर्वविषयत्वे तु परवत्सर्वशरीरत्वादिप्रसङ्गः । अत
'एव' शक्तानामपि जगद्व्यापारेषु उदासीनत्वमित्यापातास्तिकपक्षोऽपि निरस्तः । प्रवृत्तिशब्देन
क्रियायाः पृथनिर्दिष्टत्वात् अत्र क्रियाविषयम् ऐश्वर्यम् इति वा योज्यम् । तदप्येषां
परार्थं पराधीनञ्च । आदिशब्देन कैङ्कर्यानुगुणबलवीर्यादिसंग्रहः ।
।
1 सूरयोऽपि आ । 2. सर्वदा - अ । 3. कर्तृत्व - आ । 4. एव हि अ ।