This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
43
 
एवम्भूत-भूमि- नीळा-नायक !
 

श्रु. भा. - अथातिदेशः - एवम् इति । लक्ष्म्म्यपेक्षया भूम्यादीनामपि शेष- त्वाभिप्रायेण
पृथगुक्तिः, यथा, 'याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे' इति ।
 
GRUPURGAHAYAGAYAKNYAÜRÜAURUAURUPURUAUPÜAVRYAURYA
 

र.र. - श्रियमादरातिशयादुक्तप्रकारविशिष्टत्वे प्रमाणदार्ढ्यद्योतनाय पूर्ववत्पुनराह- स्वाभिमत
इति । श्रियो वल्लभ इति विग्रहे । 'नित्यानुकूलं स्वतः' (च.श्लो.२) इत्यादि प्रसिद्धस्वभावायाः
श्रियोऽप्यसौ नित्यनिरतिशय भोग्य इति दर्शितं स्यात्, श्रीर्वल्लभा यस्येति विग्रहे तु,
प्रियतमया तया निवेदितं न प्रत्याख्यातीति फलति । ईदृशं च अभिमतत्वम् 'न जीवेयं

क्षणमपि विना तामसितेक्षणाम् , (रा.सु.६६-१०) 'न त्वहं तां विना सीतां जीवेयं हि
कथञ्चन' (रा.अर.६२-१७) 'कञ्चिन्न तद्धेमसमानवर्णम्', (रा.सु. ३६-२८) (कुशली यदि
काकुत्स्थः, (रा.सुं.३६-१३) 'मत्कृते काकमात्रे तु , (रा. सुं. ३८-३९) 'यदि रामस्समुद्रां ताम्',
(रा. सुं. १६-१३) 'दुष्करं कृतवान् रामः' (रा. सुं. १५-५३) इत्यादिभिः तात्पर्यवृत्त्या व्यज्यते ।
 

नित्यनियतप्राधान्यतारतम्यक्रमेण श्रिया सह एकासनस्थे देव्यौ तच्छाया संकाशतया
दर्शयति - एवंभूत इति । तदाहुः - 'देवि ! त्वामनु नीळया सह मही देव्यस्सहस्रं तथा'
(श्रीगु.र.को.२६) इति । उपदिश्यमानधर्माधारादति दिश्यमानधर्माधारस्य स्वतः प्राप्तवैषम्याविरोधेन
साम्यं व्यवस्थाप्यम् । पररूपेऽपि देवीत्रयसम्बन्धः प्रमाणसंमतः । यथोक्तं बलपौष्करे -
 

'देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः ।
 

सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तु चाखिलैः ॥

शङ्खचक्रधरो नित्यं जानुन्यस्तैकहस्तवान् ।
 

अभयप्रदहस्तश्च नीलजीमूतसन्निभः ॥

ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलप्रदः' ॥ ( ब पौ.) इति ।

नित्यग्रन्थोक्त ध्याने तु 'नागभोगे विन्यस्तवामभुजम् , (नि. ग्रं.)
इत्येतत्संहितान्तरमूलम् ।
 

 
एतेन वर्णभुजादिविप्रतिपत्तिरपि निरस्ता । अचिन्त्यशक्तेरीश्वरस्य स्वच्छन्दवृत्तेः परसंज्ञितरूपेऽपि
तत्तत्प्रतिपत्त्यर्थं तत्तत्संहितोक्ता विशेषा नान्योन्यं बाधमर्हन्ति, यथा नरसिंहरूपे सप्त- सप्ततिभेदाः;
यथा च 'कृष्णरूपाण्यनन्तानि' (पाञ्चरात्रम्) इत्युच्यते, एवं परव्यूहादिष्वपि यथोपदेशं सर्वस्य
सत्यत्वम् । गीयते च - 'पश्य मे पार्थ! रूपाणि शतशोऽथ सहस्रशः' (भ.गी. ११-५) इति ।