This page has been fully proofread once and needs a second look.

42
 
नित्य-निरवद्य- निरतिशयकल्याण-दिव्यायुध !
 

स्वाभिमत - -नित्य-निरवद्यानुरूप -स्वरूप-रूप-गुण-विभवैश्वर्य-
-
 
शरणागतिगद्यम् -
 

शीलाद्यनवधिकातिशयासङ्घच्ख्येय-कल्याणगुणगण-श्रीवल्लभ !
 

श्रु. भा. - निरवद्यत्वम् - पूर्ववत् । निरतिशयकल्याणत्वम् - शोभनावहत्वम् ।

तान्याभरणकोटावपि हि निविशन्ते । अथ दिव्यमहिषीविशेषणानां पूर्ववदर्थः
 
KAMAKRUAUDUTUSUAUAYAÜRÜAKRUAŰRYAŬRUAGSVAKRUAURUA
 
[^1] ।
र.र. - यद्वा, नित्यसूरिसमाविष्टतया तदिच्छानुगुणविचित्रकार्यसामर्थ्यमिह विवक्षितम् ।
उक्तं च उत्तर श्रीरामायणे -
 

'शरा नानाविधाश्चापि धनुरायतविग्रहम् ।
 

अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः' ॥ ( उ.रा. १०९-७) इति ।

चक्रस्य हेतिराजत्वेऽपि शङ्खस्य पूर्वोक्तिः, सर्वशक्तेर्भगवतो मोक्षप्रदान शक्तिसूचकतया
अभ्यर्हितत्वाभिप्राया । यथोक्तं परमसंहितायाम्
 
1. प्राग्वदर्थः - इ । 2. भारते- अ ।
 
-
'सृष्टिबीजं तथा पद्मं चक्रं स्थितिनिबन्धनम् ।
 

गदा संहारबीजन्तु शङ्खं मुक्तिनिबन्धनम्' ॥ (परम.सं) इति । एवमन्यत्रापि ।

अत्र पञ्चानां कण्ठोक्तिः प्राधान्यात् । पञ्चायुधानि पञ्चभूतशक्तिरूपाणीति भागवते
[^2] प्रोक्तम्; अस्त्रभूषणाध्यायादिषु महदादितत्त्वरूपाणीति; तदुभयं तात्पर्यभेदादविरोधेन नेयम् ।
आदिशब्देन हल-मुसलादि संग्रहः । सहस्रभुजविश्वरूपादिविग्रहेषु आयुधानाम्
असङ्ख्येयत्वम् । 'अनेक दिव्याभरणं दिव्यानेकोद्यतायुधम्' । (भ.गी. ११-१०) इत्यादिभिः
सुव्यक्तम्; नित्यनिरवद्यत्वं पूर्ववत् । शुभलक्षणपौष्कल्यादाभरणकोटावपि निविश्य

शोभातिशयहेतुत्वात् अनुकूलत मस्वभावत्वात्, मुमुक्षुध्येयविग्रह विशेषणतया
तया मोक्षोपयोगित्वाञ्च निरतिशयकल्याणत्वम् ।
 
"
 
अथ एवंविध भूषणा युधादिविशिष्टस्य निरुपाधिकभोग्यस्य भर्तुः प्रधान भोक्तृत्वेन
अवस्थिता देवीः प्रतिपादयन् प्रथमं व्याख्येये प्राप्यप्रापकदशयोर्नित्यान्वितत्वेन निर्दिष्टां
 

 
[^1].प्राग्वदर्थः - इ ।
[^ 2]. भारते- अ