2023-04-07 05:35:58 by ambuda-bot
This page has not been fully proofread.
42
नित्य-निरवद्य- निरतिशयकल्याण-दिव्यायुध !
स्वाभिमत - नित्य-निरवद्यानुरूप स्वरूप-रूप-गुण-विभवैश्वर्य-
-
शरणागतिगद्यम् -
शीलाद्यनवधिकातिशयासङ्घच्येय-कल्याणगुणगण-श्रीवल्लभ !
श्रु. भा. - निरवद्यत्वम् - पूर्ववत् । निरतिशयकल्याणत्वम् - शोभनावहत्वम् ।
तान्याभरणकोटावपि हि निविशन्ते । अथ दिव्यमहिषीविशेषणानां पूर्ववदर्थः ।
KAMAKRUAUDUTUSUAUAYAÜRÜAKRUAŰRYAŬRUAGSVAKRUAURUA
र.र. - यद्वा, नित्यसूरिसमाविष्टतया तदिच्छानुगुणविचित्रकार्यसामर्थ्यमिह विवक्षितम् ।
उक्तं च उत्तर श्रीरामायणे -
'शरा नानाविधाश्चापि धनुरायतविग्रहम् ।
अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः' ॥ ( उ.रा. १०९-७) इति ।
चक्रस्य हेतिराजत्वेऽपि शङ्खस्य पूर्वोक्तिः, सर्वशक्तेर्भगवतो मोक्षप्रदानशक्तिसूचकतया
अभ्यर्हितत्वाभिप्राया । यथोक्तं परमसंहितायाम्
1. प्राग्वदर्थः - इ । 2. भारते- अ ।
'सृष्टिबीजं तथा पद्मं चक्रं स्थितिनिबन्धनम् ।
गदा संहारबीजन्तु शङ्खं मुक्तिनिबन्धनम्' ॥ (परम.सं) इति । एवमन्यत्रापि ।
अत्र पञ्चानां कण्ठोक्तिः प्राधान्यात् । पञ्चायुधानि पञ्चभूतशक्तिरूपाणीति भागवते
प्रोक्तम्; अस्त्रभूषणाध्यायादिषु महदादितत्त्वरूपाणीति; तदुभयं तात्पर्यभेदादविरोधेन नेयम् ।
आदिशब्देन हल-मुसलादि संग्रहः । सहस्रभुजविश्वरूपादिविग्रहेषु आयुधानाम्
असङ्ख्येयत्वम् । 'अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्' । (भ.गी. ११-१०) इत्यादिभिः
सुव्यक्तम्; नित्यनिरवद्यत्वं पूर्ववत् । शुभलक्षणपौष्कल्यादाभरणकोटावपि निविश्य
शोभातिशयहेतुत्वात् अनुकूलत मस्वभावत्वात् मुमुक्षुध्येयविग्रहविशेषणतया
मोक्षोपयोगित्वाञ्च निरतिशयकल्याणत्वम् ।
"
अथ एवंविधभूषणायुधादिविशिष्टस्य निरुपाधिकभोग्यस्य भर्तुः प्रधानभोक्तृत्वेन
अवस्थिता देवीः प्रतिपादयन् प्रथमं व्याख्येये प्राप्यप्रापकदशयोर्नित्यान्वितत्वेन निर्दिष्टां