This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
41
 
चूडाऽवतंस-मकरकुण्डल- ग्रैवेयक-हार- केयूर -कटक - -श्रीवत्स-
कौस्तुभ-
-

मुक्तादामोदरबन्धन- पीताम्बर- काञ्ची-गुण-नूपुराद्यपरिमित- दिव्यभूषण!

स्वानुरूपाचिन्त्यशक्ति-शङ्ख-चक्र-गदाऽसिशार्ङ्गाद्यसङ्ख्येय-
-
 
अशा
 

शु.भा.
- अथ दिव्यायुधानि । एकैकायुधस्य सर्वायुधकार्यशक्तिमत्त्वम्

अचिन्त्य शक्तित्वम्'[^1] । यथा -
 

सहायकृत्यंकिन्तस्य[^
2" सहायकृत्यं किन्तस्य'] येन सप्तमहाद्रुमाः ।
 

शैलश्च वसुधा चैव बाणेनैकेन दारिताः' ॥ (रा. कि. ३६-८) इति ।

परशुटङ्कखनित्रादिकार्यम्, एकेन सालगिरिरसातलभेदिना शरेण हि कृतम्
 
GAGAVAYAGRÜAURUAURYAGAYAÜDÜNÜDÜRÜRÜNÜRÜKÜRÜTÜSÜR
 
र. र.

र. र. -
मकरसन्निवेशं कुण्डलं मकरकुण्डलम्; अविभक्तलक्षणरूपस्यापि श्रीवत्सस्य
भूषणसमानतया भूषणत्वोक्तिः । तादृशपृथक्संस्थानयोगाञ्च; भूषण देवताध्याने
[^3] तदभिव्यक्तिः । मुक्तादामानि एकावलीत्रिसरादीनि । पीताम्बरस्य भूषणतया उक्तिः
शोभातिशयहेतुत्वमहार्घत्वाद्यभिप्राया । यथा
 
-
 
-
 
-
'अतसीपुष्पसंकाशः पीतवासा जनार्दनः ।
 

व्यभ्राजत सभामध्ये हेम्नीवोपचितो मणिः' ॥ (म.भा. उद्यो.९४-६५) इति ।

आदिशब्देन च हस्तबन्धाङ्गुळीयकादिसङ्ग्रहः । उक्तगुणोत्कर्षहेतु- भूतद्रव्यवैलक्षण्यज्ञापनाय
भूषणायुधयोः दिव्यशब्दः ।
 
1. शक्तिमत्वम् - इ । 2. साहाय्यार्थकृतं तेन - इ ।
 

एवमाश्रितानाम् अनुभवार्थानि भूषणान्युक्त्वा तदनुभवतद्रक्षणयोः उपयु- क्तानि
दिव्यायुधान्याह - स्वानुरूप इति । पूर्वोक्तविग्रहादिविशिष्टापेक्षया स्वशब्दः । तत्तदानुरूप्यं
यथोचितं ग्राह्यम् । सर्वेषाम् आयुधानां सर्वायुध कार्य करत्वात्[^4] अचिन्त्यशक्तित्वोक्तिः ।
कुठारटङ्ककुद्दालादिकार्यं सालशैलवसुधातलभेदनमेकेन हि शरेण कृतमुच्यते, 'बिभेद च

पुनस्सालान्, (रा. बा.१-६७) 'सहायकृत्यं किन्तस्य' (रा. कि. ३६-८) इत्यादिभिः ।
 

 
 
[^1]. शक्तिमत्वम् - इ ।
[^2]. साहाय्यार्थकृतं तेन - इ ।
[^
3]. देवताध्यानेन अ ।
[^
4]. शक्तत्वात् अ ।