This page has been fully proofread once and needs a second look.

40
 
शरणागतिगद्यम्
 
स्वोचित -विविध - -विचित्रानन्ताश्चर्य - नित्य-निरवद्य-
-नित्य-निरवद्य-
निरतिशयसुगन्ध - -निरतिशयसुखस्पर्श-निरतिशयौज्वल्य - -किरीट- मकुट-
मकुट-
श्रु.भा. - अथ भूषणानि, कटक - -मकुटादि जातिभेदो वैविध्यम् । एकैकाऽवा न्तरभेदपरः
विचित्रशब्दः । अनन्ताश्चर्यम् निरतिशयाश्चर्यम् । उत्तरोत्तरं निरवद्यत्वमनुसन्धेयम् ।
विग्रहचिन्तायामपि पूर्वभाविनी हि दिव्याभरण- चिन्ता । निरतिशयसुगन्धत्वादिकम्
इतरभूषणवैलक्षण्यम् । 'सर्वगन्ध- स्सर्वरसः' (छां.उ.३-४-२१) इत्यादिवत् ।
 
-
 
मकुटम्

मकुटम्
- किरीटाग्रावयवो नायकाधारः । यद्वा, मकुटम् शिरोभूषणमात्रम् ।

यथा - 'ना कुण्डली ना मकुटी' (रा. बा.६ -१०) इति । किरीटरूपं मकुटम् - किरीट-
मकुटम् । दिव्यशब्दः सर्वत्राऽप्राकृतपरः
 

 
-
 
GRÜPÜRÜAUSGAGRUAGDGAGRÜAÜDÜRÜPÜAKRUAWRUAŰRUAGRUA
 
र.र.

र.र. -
अथ स्वरूपस्य विग्रहवद्गुणवञ्च विग्रहस्य शोभातिशयहेतुभूतानि

भूषणान्युच्यन्ते - स्वोचित इति । उक्त स्वरूपरूपगुणवतस्स्वस्यानुरूपत्वं स्वोचितत्वम्;
किरीटत्वादिभेदस्य तत्तत्स्वरूपोपादानसिद्धत्वात्, आश्चर्य- त्वस्य पृथगुक्तेश्चात्र
विविधविचित्रशब्दौ हेमरत्नमुक्तादिमयत्वेन तत्तदवान्तरशिल्प विशेषैश्च[^1] प्रत्येकं वैषम्यं
ब्रूतः । अनन्तशब्दश्चाश्चर्य विशेषकः । असङ्ख्येयत्व विवक्षायामपरिमितशब्दः पृथुतरत्वपरः ।
 

नित्यनिरवद्यत्वाभ्यां प्राकृतभूषणव्यावृत्तिः । 'स्रग्वस्त्राभरणैर्युक्तम्' (पौ. सं.)

इति हि नित्यं रूपं प्रतिपाद्यते । सर्वदा निरवद्यत्वेन वा कादाचित्कावद्य शङ्काव्युदासः ।
सर्वगन्धस्यापि दिव्यरूपस्यामोदातिशयहेतुतया निरतिशय सुगन्धत्वम् । अनभिमत-
काठिन्याद्यभावात् निरतिशयसुखस्पर्शत्वम् । सूर्यादि तेजोऽभिभावुकदिव्यविग्रहतेजसापि
अनभिभूतत्वात् निरतिशयौ- ज्वल्यत्वम् ।
 

कर्णिकामकुटव्यावृत्त्या सर्वाधिपत्यसूचनार्थं किरीटशब्देन मकुटविशेषणम् ।
धारकपुरुषभेदेन हि मकुटद्वैविध्यं शिल्पशास्त्रादिप्रसिद्धम् । यद्वा [^2] 'ना कुण्डली
ना मकुटी' (रा.बा. ६-१०) इति प्रयोगात् शिरोभूषणमात्रे मकुटशब्दः । अथवा
किरीटस्योर्ध्वभागो मकुटशब्देन उच्यते ।
 

 
 
[^]
1. विशेषभेदैश्च - अ ।
[^
2]. अथव - अ ।
 
-
 

 
-