2023-04-07 05:35:57 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
39
असङ्ख्येय-कल्याण-गुणगणौघ-महार्णव !
श्रु. भा. - 'एकैक 'गुणेष्व नेकान्तर्भावाऽभिप्राय: गणशब्दः । स एव ओघः
प्रवाहः, तस्य महार्णवः, न गुणायत्तं महत्वम् ; गुणास्तु स्वावस्थाऽवस्थानाय
भगवत्स्वरूपगताः । अन्यथा न स्थातुं शक्नुवन्तीति भावः ।
BRUAŰRUAURUZURÜZURÜTÜRÜZÜRÜZURÜPÜRÜSÜRÜS RUABRUA
-
र.र.
कृतज्ञता परैः कृतस्यानुकूल्यलवस्य पश्चात्तैरनन्तापकारकरणेऽपि
स्वयं च अनन्तप्रत्युपकारकरणेऽपि अकृतप्रत्युपकारवत्तदनुबन्धिपर्यन्तसंरक्षणाय
तस्यैवानुदर्शनम् । यथोक्तं -
'न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।
-
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति' ॥ (रा.अयो.११-१) इति ।
'गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् ) (म.भा.उ.४७-२२) 'त्वदङ्घ्रिमुद्दिश्य'
(स्तो.र.२८) इत्यादि च । एतेन संश्रितानां पश्चाद्दोषसम्भवेऽपि हितैषिणश्शिक्षणमात्रप्रवृत्तत्वं
सिद्ध्यति । अथवा, अर्थिषु नियमान्तरानुसारेण स्वकृतं तादात्विकप्रत्याख्यानमकृत्यवत्
जानातीति कृतज्ञः । यदूचे - 'शिरसा याचतस्तस्य वचनं न कृतं मया' (रा.यु.२४-२१)
इति । इदञ्च प्राप्तावसरे भरतस्येवापेक्षापूरणाय स्यात् ।
आदिशब्देन 'आनृशंस्यमनुक्रोश:' (रा.सु. ३८-४१) इत्यादि प्रसिद्धसर्वगुणसंग्रहः ।
असङ्ख्येय शब्द: -
'यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक ! ।
तथा गुणा ह्यनन्तस्याप्यसङ्ख्येया 2 महात्मन: 2 ॥ (वाम. पु. ४-४०)
इत्यादिवचनस्मारकः । आश्रितविरोधिनिरसनार्थतया क्रोधादेरपि कल्याण शब्देन संग्रहः ।
'चतुर्मुखायुर्यदि कोटिवक्त्रः,' (वरा.पु.७३-७५) 'वर्षायुतैर्यस्य गुणा न शक्या: ' (म.भा.कर्ण.९१-१७)
इत्यादि प्रसिद्धापरिच्छे द्यगुणानन्त्यं तापत्रयप्रशमनत्वं दुरवगाहत्वं च व्यक्ति
गुणगणौघमहार्णव इति । एकैकगुणस्यावान्तरानेकगुणगर्भत्वं गणशब्देन व्यज्यते ।
गुणगणा एव ओघा: - जलप्रवाहाः, तेषां महार्णव इवायमेकाश्रयभूत इति भावः ।