This page has not been fully proofread.

श्रु. भा. - सत्यसङ्कल्प इति लीलाविभूतिमत्त्वम्, स्वसङ्कल्पाऽनुवृत्युभयविभूतिमत्त्वं वा ।
अथ भक्तरक्षाविषयं उक्तद्वादशकादि विलक्षणं' गुणद्वयमाह- कृति इति ।
आश्रितकार्यपूरणेन कृतार्थत्वम् कृतित्वम् । यद्वा कृतम् - क्रिया, तद्वत्त्वम् ।
आश्रितकर्तव्यस्य स्वयं कर्तृत्वम् । यथा 'अहं स्मरामि' इति । कृतमेव जानाति, न तु
करिष्यमाणांशमकृतमिति कृतज्ञः । यद्वा, स्वल्पमप्याश्रितैर्यत्साधुकृतम्, तदेव जानाति;
आश्रितकृतं दोषं स्वकृतं श्रेयश्च न स्मरतीति कृतज्ञः ।
 
१. कामा:
 
-
 
GAGAGAVAGRÜAKRUAGAYABAGAGAGAWRYABRYAGAYAGAYAGAYA
 
र.र. - काम्यन्त इति 'कामाः' - स्वेन स्वाश्रितैश्च भोग्या विभूतयः, ते च सत्याः - नित्या
इत्यर्थः । अमिथ्याभूतकामत्वमप्रतिहतेच्छत्वं, च नैरर्थक्यपुनरुक्तिभ्यां नात्र विवक्षितम् ।
सत्यसङ्कल्पत्वम् - स्वावताराद्यपूर्वभोग्यान्तरसृष्टौ जगद्व्यापारमोक्षप्रदानादिषु
चाऽमोघसङ्कल्पत्वम् । तेन तत्सङ्कल्पादभिमतलाभे निस्संशयत्वं स्यात् ।
 
सत्यसङ्कल्प - कृतित्व - कृतज्ञतादि-
उक्तगुणवर्गादधिकोपकारकं गुणद्वयमाह कृतित्व - कृतज्ञता इति । `कृतमिहोपकारः
कृतज्ञादिशब्दे तथा दृष्टेः । तद्वत्त्वं कृतित्वम्, उपकर्तृत्वमित्यर्थः । यद्वा - 'अभिषिच्य च
लङ्कायाम्' (रा.बा.१-८५) इत्याद्युक्तं आश्रितकार्यपूरणेन कृतकृत्यत्वम् - कर्तव्यशेषरहितेषु
कृतिशब्दप्रयोगात् । 'न मे पार्थास्ति कर्तव्यम्' (भ.गी. ३-२२) इत्युक्तं' विहितानुष्ठान-
नैरपेक्ष्यं धर्मप्रवर्तनार्थानुष्ठानत्वं वा विवक्षितम् तेनापि परोपकारार्थमेव प्रवृत्तत्वमुक्तं
भवति । श्रूयते च 'न कर्मणा वर्धते नो कनीयान्' (तै.ब्रा.३-१२-५५) इति । तथा च श्रुत्यन्तरम्
'स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान्' (बृ. उ.६-४-२२) इति अथवा
'आदिकर्मणि क्त:' (पा.सू.३-४-७१) कृतं कर्तव्यत्वेनोपक्रान्तमाश्रितानां यद्धितं, तत्सर्वं पूर्वमेवाऽनेन
प्रयोजककर्त्रा प्रारब्धमित्यर्थः । स्वेन कृतं परोपकारं प्रत्यपि स्वस्यैव शेषित्वं वा कृतित्वम् ।
 
स्यादिति भावः ।
 
38
 
-
 
२.
 
1. लक्षणम् इ ।
 
-
 
-
 
शरणागतिगद्यम् -
 
अत्र कर्मणि प्रत्ययः । भोग्यविभूतिः विवक्षिता । भावार्थत्वे सङ्कल्पवाचित्वेन पुनरुक्ति:
 
कृतमिहोपकारः अत्र 'तयोरेव कृत्यक्तखलर्थाः' इत्यनेन भावार्थे क्तप्रत्ययः ।
 
-
 
2. इत्याद्युक्तं - अ ।
 
-