This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
37
 
स्थैर्य - धैर्य-शौर्य-
-पराक्रम-सत्यकाम-
श्रु. भा. - स्थैर्यम्- 'न त्यजेयं कथञ्चन' (रा. अयो. १०-३) इत्यभिसन्धिमत्वम् ।
भक्तरक्षोपयोगिगुणाः द्वादश । अथ तत्रैव रक्षणे विरोधिनिरसनौपाधिकं त्रिकम् । धैर्यम् -
स्वस्मिन् प्रतिपक्षागमे सत्यविकृतत्वम् । यथा - 'जटा'चूड' ग्रन्थिं दृढयति' इति । स्वगृह इव
परबले प्रवेशसामर्थ्यम्- शौर्यम् । प्रवेशे सति तन्निरासकौशलं - पराक्रमः । यथा
'छिन्नं, भिन्नम्' इत्यादि ।
 
अथ भोग्यगुणयुगम् । सत्यकाम इति नित्यविभूतिमत्त्वम् 'काम्यस्स्पृहा स्मरः
कामः' इत्यनेकार्थः ।
 
GAVAVAUAWAUAGDUNURUAURUPURUAURUPURUAUDUAURYAURUA
 
-
 
र.र. स्थैर्यम् - शरणागतसंग्रह दोषप्रदर्शकैः अन्तरङ्गैरपि अकम्पनीयत्वम् ।
तथा च आह - 'मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन' (रा.यु.१८-३) इत्यादि ।
 
धैर्यम् - 'अप्यहं जीवितं जह्यां त्वां वा सीते! सलक्ष्मणाम्' (रा. अर.१०-१९)
इत्यादिषूक्तमत्यन्ताभिमतवियोगप्रसङ्गेऽपि अभिन्नप्रतिज्ञत्वम् । भीष्माद्याश्रितप्रतिज्ञारक्षणाय
स्वप्रतिज्ञा भङ्गेऽप्येतादृश प्रतिज्ञासिद्धिः । अत एव -
 
'द्यौः पतेत्पृथिवी शीर्येत् हिमवान् शकलीभवेत् ।
 
शुष्येत्तोयनिधिः कृष्णे! न मे मोघं वचो भवेत्' (म.भा.उ.८१-४८)
इत्यादिभिः अविरोधः । व्यत्ययेन वा स्थैर्यधैर्ये व्याख्यातव्ये । अतर्कितोपनतेऽपि उबलवति
प्रतिपक्षे सावज्ञदृढचित्तत्वं वा धैर्यम् । यथाऽहुः - 'कपोले जानक्या:' (ह.ना.१-१९) इत्यादि ।
जीवत्यपि महाबले रावणे सागरे प्यलङ्घिते विभीषणमभिषिञ्चता दर्शितोऽयं गुणः ।
शौर्यम् - असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थ्यम् । यथा
जनस्थानयुद्धमूलबल निबर्हणा दिषु ।
 
पराक्रमः
 
प्रविष्टस्य परसैन्ये 'छिन्नं भिन्नं शरैर्दग्धम्' (रा.यु.९३ २२) इत्याद्युक्तो
व्यापारः । 'अभियाता प्रहर्ता च ' ( रा. बा. १- ३०) इत्याधुक्ताविमौ द्वौ गुणावाश्रितविरोधिभङ्गार्थी;
धैर्यादयस्त्रयो वा ।
 
अथेष्टप्रापणार्थौ गुणावाह - सत्यकामसत्यसङ्कल्प इति । इह एतौ शब्दौ
भावप्रधानौ कर्मधारयवृत्तौ वा ।
 
1. जूट - इ । 2. भङ्गेपि तादृश - अ । 3. बलवते आ । 4. निरसना - अ । 5. इहैतौ आ ।