2023-04-07 05:35:56 by ambuda-bot
This page has not been fully proofread.
36
कारुण्य- माधुर्य - गाम्भीर्य- औदार्य - 'चातुर्य -
शरणागतिगद्यम् -
श्रु.भा. - कारुण्यम् - 'स्वार्थाऽनपेक्षा परदुःखाऽसहिष्णुता । माधुर्यम् - हन्तुं
प्रवृत्तावपि रसापहत्वम् यथा 'एह्येहि फुल्लाम्बुजपत्रनेत्र!' (म.भा.भी.५९-९८) इति ।
गाम्भीर्यम् - आश्रितविषये 'एवमनेन चिकीर्षितम्' इति परिच्छेत्तुमशक्यत्वम्;
दीयमानगौरवसम्प्रदानलाघवाऽनपेक्षत्वं वा । औदार्यम्- 'अन्यस्मै ददामि' इत्यभिमानविरहेण
'पुत्रवत्प्राप्तं भुङ्गे' इति बुद्ध्या दातृत्वम् । इदमियद्दत्तं मयेत्यस्मरणशीलत्वं वा । यद्वा
सर्वं दत्वापि 'ऋणं प्रवृद्धमिव मे' इत्यतृप्तत्वम् औदार्यम् । चातुर्यम्- आश्रितार्थेष्वजड
क्रियत्वम् । यथा साऽनुबन्धरावणवधेन विभीषणाऽभिषेकः । यद्वा आश्रितदोषगोपनं
वा - चातुर्यम्, यथा पित्रादेरिव ।
SAVAVAVAGAWAURUAGAKAWRUAÜRÜAÜRÜYAÜRÜAGRÜAKAGAGRUA
र.र. - कारुण्यम् - अनुद्दिष्टस्वप्रयोजनान्तरा परदुःखनिराकरणेच्छा । परदुःख
दुःखित्वादिकं तु न लक्षणम्; अव्याप्तेरतिव्याप्तेश्च । सर्वप्रशासितुस्सापराधनिग्रहस्यापि
शास्त्रसिद्धत्वात्तदविरोधेन कारुण्यं नियन्तव्यम्, लोकेऽपि तथैव व्युत्पत्तेः ।
माधुर्यम् - क्षीरवदुपायभावेऽपि स्वादुत्वम् । तच्च 'माधुर्यं परम्' इत्यादिषूक्तम् ।
द्वेषवतां जिघांसितानामपि दृष्टिचित्तापहारित्वेन रसावहत्वं वा । येन शिशुपालस्य तादृशी
चरमदशा । अनन्यमनसाम्- 'मच्चित्ता मद्गतप्राणाः' (भ.गी. १०-९) इत्याद्युक्तावस्था च ।
वधोद्योगप्रदर्शनेऽपि हि सौम्यत्वम् 'एह्येहि फुल्लाम्बुजपत्रनेत्र !' (म.भा.भी.५९-९८) इत्यादिषु
प्रसिद्धम् ।
गाम्भीर्यम् - भक्तानुग्रहवदान्यत्वादेः आमूलतो दुरवगाहत्वम् । आश्रितापराधेषु
प्रतिग्रहीतृनिकर्षादिषु च सतोऽपि स्वज्ञानस्य गोपनेन दुर्ज्ञानत्वं वा । तदभिप्रायेण हि
सर्वज्ञस्याप्यविज्ञातृत्वोक्तिः ।
1. 'चातुर्य' इति पदं नास्ति - इ ।
औदार्यम् - पात्रलाघवं देयगौरवं च अनादृत्य दायविभागन्यायेन प्रत्युपकारादिनिरपेक्षं
वितरणरसिकत्वम्, प्रभूतं दत्वाप्यतृप्तत्वं च । अत एव हि अर्थिनस्सर्वान् स्वयमुदारानाह ।
चातुर्यम् - रक्षणीयेषु 'जनयन् प्रत्ययं तदा' (रा. बा.१-६५) इत्यादि-
प्रसिद्ध मतिशङ्काशमनदोषगोपनादिरूपमजडक्रियत्वम् । येन विभीषणसुमुखादिषु
विरुद्धानप्यनुकूलयति, शुभाश्रयस्वाकारप्रदर्शनाद्ययत्नोपायैः विषयवैराग्यादिकं च जनयति ।
2. स्वार्थानपेक्षया इ ।
-
3. दुर्ग्रहत्वं - अ ।