This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
र.र. -
 
-
 

मार्दवार्जव-सौहार्द- साम्य
श्रु.भा.
 
-आश्रितविरहासहत्वं - मार्दवम् । तेष्वस्थानभयशङ्कित्वं वा ।
 

मनोवाक्कायैकरूप्यम् - आर्जवम् । यथा 'ऋजुबुद्धितया सर्वमाख्यातु- मुपचक्रमे' इति ।
सौहार्दम् - तेषामभिमतश्रेयोभिध्यायित्वम्; स्वसत्तान- पेक्षतद्रक्षापरत्वं वा । साम्यम् -
जन्मवृत्तगुणवैषम्यमनपेक्ष्यं सर्वेषां समाश्रयणीयत्वे स्वीकृतानां तेषां सम्भावनाविशेषेषु
मनसा - तद्विषयादरे च समत्वम्; तारतम्यधीरहितत्वम् ।
 
GAKAWAYAWRUAUZWAURYAURYAUAYAWRYAWAUAWRUNURUNURUA
 

रऱ.-
'अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
 

साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः' ॥ (भ.गी.९-३०)
 
35
 
मार्दवार्जव - सौहार्द साम्य-

'अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन! ।
 

मुच्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा' ॥ (म.भा. आश्व.९६-४६)
 

इति च आह ।
 

मार्दवम् - 'तं विना कैकयीपुत्रम्' (रा. यु. १२४-६) इत्यादिवादिन

आश्रितविरहाक्षमतया सुप्रवेशत्वम्, 'सापराधेषु शासनोन्मुखस्यापि सामप्रधानत्वं वा
,' यदाह - 'सामोपहितया वाचा रूक्षाणि परिवर्जयन्' (रा. कि. ३१-८) इति ।
 

आर्जवम् - 'ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे' (रा. अर.१७-१५) इत्यादिषु
उक्तं मनोवाक्कायव्यापाराणां मिथस्संवादित्वम् । तेन संश्रितेषु विप्रलिप्सानुदयः ।
 

सौहार्दम् - 'सुहृदं सर्वभूतानाम्', (भ.गी. ५-२९) 'उरसा प्रतिजग्राह पार्थं

संछाद्य माधव:' (म.भा.द्रो. २८-१७) इत्यादिप्रसिद्धं सामान्यतो विशेषतश्च हितैषित्वम् ।
तच्च विषयभेदात् क्वचित् 'एष एवासाधु कर्म कारयति तम्' (कौषी. उ.३-९)
इत्याद्युक्ताधोनिनीषया न विरुद्ध्यते ।
 
>
 

साम्यम् - जातिगुणवृत्तांदि निम्नोन्नतत्वानादरेण सर्वैराश्रयणीयत्वम् । यथा

'शबर्या पूजितस्सम्यक् (रा.बा.१-५८) 'धन्योऽहमर्चयिष्यामि इत्याह माल्योपजीवनः '
(वि.पु. १९-२१) इत्यादि । अत एव 'समोऽहं सर्वभूतेषु' (भ.गी. ९-२९) इत्याह । एतेन
स्वतोऽपक्षपातित्वम्, आश्रितेषु यथार्हमादर- संभावनाक्रमवैषम्यरहितत्वं च सिद्ध्यति । यथा
कर्मफलदायिन ईश्वर- स्याश्रयणौपाधिकपक्षपातोऽपि समत्वाविरोधी ।