This page has been fully proofread once and needs a second look.

34
 
सौशील्य-
वात्सल्य -
 
शरणागतिगद्यम् -
 
-
श्रु. भा. - सौशील्यादिद्वादशम्- भक्तरक्षणासाधारणम् । सौशील्य इत्यादि- शीलं
हि नाम - महतो मन्दैस्सहनीरन्ध्रेण संश्लेषस्वभावत्वम् । तस्य च प्रयोजनान्तरौपयिकत्वाभावात्,
सौशील्यम् । यद्वा ईश्वरत्वबुद्ध्या यथा आश्रितानां साध्वसं न स्यात्, यथा च स्वयमपि न
स्वस्य परत्वबुद्ध्या विलक्षणस्स्यात्, तथा शीलत्वम् - सौशील्यम् । वात्सल्यम् - दोषेऽपि
गुण- त्वबुद्धिः । यथा सद्यः प्रसूतायाः धेनोर्वत्से; इदञ्च क्षमाकाष्ठारूपम्'[^1] । अत एव हि
पृथगनुक्तिः क्षमायाः ।
 
अथ 'तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ।
 
-
 
SAGAURUAUSÜPÜRÜTÜPÜAURUAKDÜRURVAÜSÜPÜRÜPÜRUTURUA
 

र.र. - न जानाति, जानन्नपि न धारयति; ज्ञात्वा धारयन्नपि न सर्वदा नियन्तुं शक्नोति;
शक्तोऽपि धारणनियमनाभ्यां ग्लानो भवतिः अग्लानोऽपि न तत्सत्तास्थितिहेतुस्स्यात् ;
तद्धेतुश्च पराधीनसहकारिसापेक्षस्स्यात्; नैवमसाविति गुणक्रमोक्तितात्पर्यम् ।
 

अथ 'तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ।
यैस्त्वयेव जगत्कुक्षावन्येप्यन्तर्निवेशिताः' ॥ ( षाड्गुण्यविवेकः)
 

'प्रकृष्टं विज्ञानम्' (व. स्त. १५) इत्याद्युक्तषाड्गुण्यविततिरूपा आश्रित संग्रहणरक्षणयोर्विशेषत
उपयुक्ता गुणा उच्यन्ते । तत्र सौशील्यम् - शोभन शीलत्वम्; तातव्च अत्र
अतिमहीयसोऽप्यतिहीनेषु गुहगोपालादिष्वपि साध्वसप्रशमनाऽनन्यप्रयोजननीरन्ध्र-
संश्लेषस्वभावत्वम् । यथोक्तं - 'गुहेन सहितो रामः, (रा. बा. १-३०) 'अहं वो बान्धवो जातः '
' (वि.पु. ५-१३-१२) इत्यादि । 'वात्सल्यम्'[^१] 'शरणागतवत्सलः' (रा.सुं.२१-२०) इत्याद्यभिप्रेता

स्वरक्षरणीयतयाऽभिमतेषु दोषतिरस्कारिणी प्रीतिः । 'दोषाणां[^2] गुणत्वेन दर्शनम्' इति
तु अतिवादः । क्षमाकाष्ठाभूतवात्सल्यकथनेन क्षमाऽप्युक्ता भवति ।
 

 
 
[^
]. वात्सल्यम् - 'वत्सांसाभ्यां कामबले' (पा.सू.५-२-९८) इत्यनेन कामवति बलवति च लच् प्रत्ययो भवति ।
'कामबलशब्दौ' सूत्रे अर्श- आद्यजन्ताविति भावः । वत्सलः स्नेहवानित्यर्थः (त.बो.) । एतदभिप्रेत्य

दोषतिरस्कारिणी प्रीतिरिति व्याख्यातम् । 'अन्तरधिकरणश्रुतप्रकाशिकायाम्' - वात्सल्यं - दोषानादर हेतुः
स्नेहः । यथा - मातुः पुत्रे इत्युक्तम् । 'जिज्ञासाधिकरण श्रुत प्रकाशिकायान्तु ( कृत्यु द्देश्यत्वविचारावसरे)
एवमुक्तम् । सम्बन्धविशेषान्वितेषु प्रीतिः स्नेहः, यस्य विपाकाः अस्थान भयशङ्कित्वम्, दोषानवभासः, 'दोषेऽपि
गुणबुद्धिः, इत्यादयः' इत्युक्तम् । अनेन स्नेहस्य विपाकदशा प्रादर्शि- अत्रोक्तान्ति- मदशा स्वीकृता प्रथम
व्याख्यातृभिरिति ज्ञायते । अनेन व्याख्यानभेदेन 'बलविषये स्नेहविशेषः परमात्मनो वर्तते' इत्येव पर्यवसन्नम् ।

[^
1]. क्षमाकाष्ठानुरूपम् - इ ।
[^
2]. दोषाणामपि - अ ।
 
-
 

 
-