2023-04-24 05:23:28 by jayusudindra
This page has been fully proofread once and needs a second look.
33
श्रु. भा. षाड्गुण्यम् -साधारणम् ।
GAVAGAYAGAGAURYAGAYAGRÜAŬRYAŬRYAÜZÜAÜRÜNÜRÜNÜSUS
र.र. - संकर्षणादिव्यूहत्रयाभिव्यक्तिक्रमेण ज्ञानादिगुणद्वन्द्वत्रिकोक्तिः । प्रत्येकं च गुणद्वन्द्वेषु
'बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् ।
श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्' ॥ इति ।
[गुणक्रमोक्तेस्तात्पर्यम्]
ज्ञानम् इह सर्वसाक्षात्काररूपम्, 'यः सर्वज्ञः सर्ववित्' (मुं. उ.१-१-९) 'सर्वदर्शी
( वि.पु. ६-४-४०) इत्यादिसिद्धम्
-
वीर्यम् - सर्वोपादानत्वे, सर्वधारणे, सर्वनियमनेऽपि विकाररहितत्वम् । यथोक्तम् -
तेजः - अस्वाधीनसहकार्यनपेक्षत्वम् । तदुक्तम्- 'तेजस्त्वन्याऽनपेक्षता, इति ।
-
'सहकार्यनपेक्षा में सर्वकार्यविधौ हि या ।
तेजष्षष्ठगुणं प्राहुस्तमिमं तत्ववेदिनः' ॥ (ल.तं.२-३३) इति च ।
'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः (मुं.उ.२-२-१०)