This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
33
 
ज्ञान- बलैश्वर्य - वीर्य-शक्ति- तेजः-
श्रु. भा. षाड्गुण्यम् साधारणम् ।
 
GAVAGAYAGAGAURYAGAYAGRÜAŬRYAŬRYAÜZÜAÜRÜNÜRÜNÜSUS
 
र.र. - संकर्षणादिव्यूहत्रयाभिव्यक्तिक्रमेण ज्ञानादिगुणद्वन्द्वत्रिकोक्तिः । प्रत्येकं च गुणद्वन्द्वेषु
पौर्वापर्यहेतुर्भगवच्छास्त्रोक्तः । यथा -
 
'बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् ।
श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्' ॥ इति ।
[गुणक्रमोक्तेस्तात्पर्यम्]
 
ज्ञानम् इह सर्वसाक्षात्काररूपम्, 'यः सर्वज्ञः सर्ववित्' (मुं. उ.१-१-९) सर्वदर्शी
स्वाधीनोऽनादिः सर्वेश्वरस्सर्वदृक्' (रहस्याम्नायम्) इत्यादिभ्यः । उक्तञ्च नाथमुनिभिः - 'यो
वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः' (न्या.त.) इति । बलं नाम श्रमप्रसङ्गरहितं
सर्वधारणसामर्थ्यम्, 'एष सेतुर्विधरण:) (बृ. उ. ४-४-४२) 'यत्र विश्वं भवत्येकनीळम्',
(महाना.उ.१-३) 'तत्सवितुर्वरेण्यम्' 'ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम,
(मै.उ.६-३४) 'यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः', (भ.गी.१५-१७) 'परमात्मा
च सर्वेषामाधारः परमेश्वरः' (वि.पु. ६-४-४०) इत्यादिसिद्धम् । ऐश्वर्यम् - 'एष सर्वेश्वरः,
(बृ. उ. ४-४-४२) 'सर्वेश्वरेश्वरः कृष्णः' (वि.ध. ७४४४) इत्यादिषूक्तमव्याहतेच्छं
सर्वनियन्तृत्वम् । 'अजस्सर्वेश्वरः' (म.भा. आनु सहस्रनामाध्यायः) इति च तन्नामपाठः ।
 
-
 
वीर्यम् - सर्वोपादानत्वे, सर्वधारणे, सर्वनियमनेऽपि विकाररहितत्वम् । यथोक्तम् -
'विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा' (ल.तं. २ ३०) इत्यादि । शक्ति:
स्वेतरसर्वनिर्वाहिका, 'जगत्प्रकृतिभावो मे यस्सा शक्तिरितीर्यते' (ल.तं.२-२८) इत्यादिषु
उक्ता सर्वोपादानत्वात्मिका । यद्वा, यदन्यैरशक्यत्वादघटितमिव भाति, तद्घटनसामर्थ्यरूपा ।
तेजः - अस्वाधीनसहकार्यनपेक्षत्वम् । तदुक्तम्- 'तेजस्त्वन्याऽनपेक्षता, इति ।
 
-
 
'सहकार्यनपेक्षा में सर्वकार्यविधौ हि या ।
 
तेजष्षष्ठगुणं प्राहुस्तमिमं तत्ववेदिनः' ॥ (ल.तं.२-३३) इति च ।
'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः (मुं.उ.२-२-१०)
'ज्योतींष्यादित्यवद्राजन् कुरून् प्रच्छादयन् श्रिया' (म.भा.उद्यो.९२-३२) इत्यादिनिदर्शितं
'पराऽभिभवनसामर्थ्यं तेजः केचित्प्रचक्षते' । लोके कश्चित् स्वापाद्यवस्थायां स्वविभूतिं