This page has been fully proofread once and needs a second look.

32
 
शरणागतिगद्यम् -
 
यौवनाद्यनन्त'गुणनिधि - [^1] -दिव्यरूप ! स्वाभाविकानवधिकातिशय-
इस
 

श्रु. भा. - आदिशब्दार्थः - पीनवृत्तायतभुजत्वादि । अथ दिव्यात्मगुणाः ।

स्वाभाविक इत्यादि स्फुटम् ।
 
BRURBRURBRUBRUBRUARURBRUBRUBRUBRUARXXBRUA
 

र.र. - निरतिशयत्वमौज्वल्यादिषु सर्वेष्वप्यन्वीयते । तञ्च तदपेक्षयोत्कृष्टा- भावात्
अनुत्तमत्ववत् । औज्वल्यम्- 'आदित्यवर्णं, (ते. आर. ३-४०-१३) 'दिवि सूर्यसहस्रस्य'
(भ.गी. ११-१२) इत्यादिषूक्तं भास्वरतमत्वम् । सौन्दर्यम् अवयवशोभा; येन
'साक्षान्मन्मथमन्मथः' (भाग. १०-३२-२) इत्युच्यते । 'सर्वगन्धः' (छां.उ.३-४-२१) इति
श्रुतिः अनुकूलगन्धविषया; स्रक्चन्दनादि च अत्र कृतकरमित्यभिप्रायेण सौगन्ध्यशब्दः ।
सौकुमार्यम् - महाबलत्वेऽपि 'पुष्पहासः' (श्रीरं स्त. १-८८) इति नाम दुहानं मार्दवम् ।

यथोक्तम् - 'सुकुमारौ महाबलौ' (रा. अर.१९-१४) इति । लावण्यम् - समुदायशोभा ।

'भूयिष्ठं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम् ।
 

चक्षुरानन्दजननं लावण्यमिति कथ्यते' ॥ (अहि.सं.५२) इत्याहुः ।
 
-
 

यौवनं इह न कालकृतावस्था; किन्तु तादृशो विग्रहस्वभावः । तद्यौवनस्य नित्यत्वात् ।
अन्येषामपि हि यौवने कौमारानन्तरभावित्वमुपलक्षणमात्रमेव । युवतयैव केषाञ्चिदुत्पत्तिश्रवणात्,
आदिशब्देन शुभाश्रयादिप्रकरणोक्त सर्वगुणसंग्रहः, तत एवाऽनन्त्यम् । निधिशब्द इह
आश्रयपरो निरतिशय भोग्यत्वव्यञ्जकश्च ।
 

 

एवमुपकारकतमत्वाद्यभिप्रायेण गुणेभ्यः पूर्वं विग्रह उक्तः । अथ ईदृश विग्रहाभिव्यङ्गय -
प्रकृष्टगुणभूयिष्ठतामाह स्वाभाविक इति । अत्र सर्वगुण कन्दभूतैराश्रितानाश्रितगोचरव्यापार-
भेदसाधारणैर्ज्ञानादिभिः परत्वम्, आश्रितरक्षणैकान्तैः सौशील्यादिभिस्सौलभ्यञ्च व्यज्यते ।
स्वाभाविक शब्देन नित्यत्वमनन्याधीनत्वं च अत्र विवक्षितम् । ताभ्यां 'मुक्तनित्य[^2] ज्ञानादिभ्यो
व्यवच्छेदः । तद्वलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशय त्वादपि । अनवधिकातिशय-
शब्द: -पूर्ववत् । 'पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च
(श्वे.उ.६-८) इत्याम्नातं स्वाभाविकत्वं परत्वञ्च सर्वेषु गुणेषु[^3] योज्यमिति भावः ।
 

 
 
[^
1]. कल्याणगुणनिधि - इ ।
[^
2]. नित्यमुक्त - आ ।
[^
3]. सर्वगुणेषु - अ ।