2023-04-07 05:35:55 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
31
निरतिशयौज्वल्य - सौन्दर्य - सौगन्ध्य-सौकुमार्य - लावण्य-
श्रु. भा. - सौन्दर्यम् अवयवशोभा । लावण्यम् अवयविशोभा ।
GAVAURUAURUAUDUAURYAURUAUDULURUKURÜPÜRÜZUSUAUSUA
I
}
र.र. - दिव्यशब्दौ द्रव्यतस्सन्निवेशादिभिश्च वैलक्षण्यपरौ; अप्राकृतस्थानवर्तित्वा-
प्राकृतत्वपरौ वा । 'रूपं विशिष्टं दिवि संस्थितञ्च (म.भा.मौ.५-३४) 'न भूतसंघसँस्थानो
देहोऽस्य परमात्मनः) (म.भा.शां.२०६-६०) 'न तस्य प्राकृता मूर्तिः मांसमेदोऽस्थिसंभवा'
(वरा.पु.७५-४४) इत्यादिभिस्तथोक्तेः । अद्भुतत्वम् 'तस्य ह वा एतस्य पुरुषस्य रूपं
यथा महारजनं वासः' (बृ. उ. ४-३-६) । 'सर्वाश्चर्यमयं देवम्', 'तेनाश्चर्यवरेणाहम्',
'अपूर्वरूपसंस्थानम्' इत्यादिप्रसिद्धनिरतिशयवैचित्र्यवत्त्वम् ।
नित्यत्वम् अपि 'नित्याऽलिङ्गा स्वभावसंसिद्धिः' (र.आ.), 'नित्यं नित्याकृतिचरम्'
इत्यादिभिरुक्तम् । तेन शुभाश्रयपरविग्रहस्य 2 कल्पितत्वकृतकत्वादिपक्षाः प्रतिक्षिप्ताः ।
अवतारविग्रहाणामपि सत्यानामेव तत्रैव विभागाविभागावुपदिष्टौ; तेषां प्रत्येकमपि
अनित्येच्छाधीनतां' केचिदाहुः ।
निरवद्यत्वं क्षेत्रज्ञशरीरवत् कर्ममूलत्वदुःखावहत्वादेरभावात् । दिव्यात्मस्वरूपे
प्रक्रान्तयोगपुरुषापेक्षयोक्तमनालम्बनत्वरूपमप्यवद्यं दिव्यविग्रहे नास्ति, तस्य यथाश्रुतं
यथादर्शनं च सुखानुसन्धेयत्वात् । इह खल्वीश्वरापेक्षया न किञ्चिदपि प्रतिकूलम्, सर्वस्य
तदनुकूलतयैव प्रमाणसिद्धत्वात् । तस्य तु परप्रतिकूल' सर्वाश्रयस्यापि स्वप्रतिकूललेशर-
हिततया समस्तहेयरहितत्वोक्तिः ।
एवं मुक्तनित्यापेक्षयापि न कस्यचित्प्रातिकूल्यम्, तेषामीश्वरेण समानभोगत्वात् ।
अचेतनापेक्षया तु प्रतिकूलानुकूले कदाचिदपि न स्तः । अत एव तस्य हेयमुपादेयं च
नास्ति । तस्य सावद्यत्वोक्तिस्तु चेतनविशेषप्रतिकूलस्वभावयोगितया तदपेक्षा । क्षेत्रज्ञानान्तु
स्वप्रतिकूलदुःखतत्कारणसम्बन्धात् सावद्यत्वम् । ईश्वरबुद्धिविशेषरूपस्य क्षेत्रज्ञकर्म-
साध्यनिग्रहस्यापि कर्मवश्यगोचरतया तद्दोषत्वमेव । ईश्वरस्य तु असौ प्रशासनरूपतया
गुण एव । एवं स्थिते दिव्यविग्रहस्य निरवद्यत्वोक्तिः ईश्वरापेक्षया तदाश्रितापेक्षया च
शरीरत्वादिशङ्कितप्रतिकूलस्वभावराहित्यपरा ।
1. दिव्याद्भुतशब्दौ अ । 2. शुभाश्रयाद्भुतपरविग्रहस्य - अ ।
4. सर्वाश्रयस्य - आ ।
3. नित्येच्छासिद्धतां - आ ।