2023-04-07 05:35:55 by ambuda-bot
This page has not been fully proofread.
30
शरणागतिगद्यम् -
एकरूपाचिन्त्य - 'दिव्या द्भुत - नित्य-निरवद्य
श्रु. भा. - एकरूपत्वम् - उभयलिङ्गत्वप्राप्यत्वोपास्यत्वैः । तर्कागोचरत्वम्
अचिन्त्यत्वम् । दिव्यशब्दद्वयम् द्रव्यसंस्थानवैलक्षण्यपरम् । अद्भुतत्वं प्रतिक्षणमपूर्वत्वम् ।
नित्यसंस्थानत्वं - नित्यत्वम् । दौर्लभ्यावद्यराहित्यम् निरवद्यत्वम् ।
GAGAKAYAKRÜAGRÜNÜRÜPÜRÜNÜRÜNÜDÜRÜRUAURUPURUPURUS
र.र. यद्यपि दिव्यात्मस्वरूपापेक्षया सर्वेषामाधेयत्वं समानम् । यद्यपि च विग्रहस्य
गुणनियाम्यतया गुणानामन्तरङ्गत्वम् । तथाऽपि स्वरूपवद्भूषणास्त्रस्वरूपनिखिलजगदाधारत्वेन
तदनुरूपत्वात्तादृशस्वरूपस्य व्यञ्जकत्वात्, सालम्बनयोगविषयत्वेन मुमुक्षूणां शुभाश्रयत्वाच्च
प्राधान्यं दर्शयितुं गुणेभ्योऽपि पूर्वं विग्रहमाह - स्वाभिमतानुरूप इति । निरवधिकानन्दरूपस्य
स्वस्याप्यभिमतमनुरूपञ्च, 2दिव्यरूपम् । स्वरूपस्य नित्यनिरवधिकानुकूलत्वमन्याभिमतिं
न बाधते । सर्वस्य सर्वदा अविशिष्टकानुभव गोचरत्वेन प्रमाणसिद्धत्वात् । सा
चाऽभिरूपस्याभरणाभिमतिवन्त्र स्वरूपानुकूल्यबाधिका ।
एवं भूषणादावप्यभिमतत्वाविरोधः । अनिष्टावहशरीरादिव्यावर्तकैः
अप्राकृतत्वध्येयत्वप्राप्यत्वादिभिरपि विग्रहादेरानुरूप्यम्; सर्वदोक्तप्रकारविशिष्टत्वमेकरूपत्वम्
'नानारूपेष्वपि व्यूहविभवार्चावतारेषु अप्राकृतत्वशुभाश्रयत्वादिकम् 'समस्ताश्शक्तयश्चैताः,
(वि.पु.६-७-७०) 'समस्तशक्तिरूपाणि), (वि.पु.६-७-७१)
'बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । ।
अर्चाऽपि लौकिकी या सा भगवद्भावितात्मनाम्' ॥
'मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहा' । (सा.सं. ६ - २२, २३)
इत्यादिभिरुच्यते । परव्यूहादिविग्रहवत्तत्तद्विग्रहानुप्रवेशादर्चाऽपि षाड्गुण्य-
प्रकाशकशुद्धसत्वद्रव्यमयीत्यर्थः । देवतिर्यङ्मनुष्यादिविचित्रावतारदशायामपि 'आदित्यवर्ण
तमसः परस्तात्' (तै.आर.३-४०-१३) इत्यादिप्रसिद्धस्य परमपदनिलयविग्रहस्य सन्निवेशैकरूप्यं
वा विवक्षितम् । चिन्त्यत्वेन चोदितस्यापि अचिन्त्यत्वोक्ति: इतरसजातीयतया
चिन्तयितुमशक्यतामाह । तेनानित्यत्वादिसाधकसावयवत्वाद्यनुमानानां धर्मिग्राहक-
मानबाधोऽभिप्रेतः ।
1. दिव्यदिव्या इ । 2. दिव्यविग्रहस्वरूपम् - अ ।
नानारूपेष्वपि हिअ ।
4.
3. विशिष्टैकानुकूलानुभव - आ ।