This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
स्वेतर -समस्तवस्तु-
- [
-विलक्षणानन्त-ज्ञानानन्दैक- स्वरूप ! स्वाभिमतानुरूप -
 
29
 
-
श्रु.भा. - अथ रूपम् । अभिमतानुरूपशब्दौ पूर्ववत् ।
 
GAGAUNGAÜNYAGREAGAGAURÜPÜRÜAURUAURUAURUAURUAURUT
 

र.र. - ज्ञानानन्दयोरुभयोरप्युक्तिः । आनन्दकल्याणशब्दौ स्वपरापेक्षया अनुकूलत्वं वा ब्रूतः ।
एवम्, 'आनन्दादयः प्रधानस्य (ब्र.सू.३ ३.११) 'अक्षरधियान्त्ववरोधः' (ब्र.सू.३-३-३३)
इत्यधिकरणद्वयोक्तं स्वरूप- निरूपकवर्गद्वयं व्यञ्जितं भवति ।
 

अथवा, हेयप्रत्यनीकत्वं - आश्रितानां यथोपायं स्वेच्छया हेयनिवर्तकत्वम् ।

तथा सति लोके स्वसङ्कल्पायत्तहेयसद्भावस्य न विरोधः । न च विरुद्ध घटनशक्तिकल्पना;
स्वरूपमात्रेण हेयनिवर्तकत्वस्यानङ्गीकारात् । अन्यथा अतिप्रसङ्गात् । कल्याणैकतानत्वं
आश्रितानां अभिमतेषु कल्याणे- ष्वैकाग्र्यम्, 'अनिष्टनिवर्तनमिष्टप्रापणञ्चेत्यर्थः[^1] ; स्वस्य

निर्दोषमङ्गलगुणाकरत्वमप्यत्र 2 अर्थसिद्धम्'[^ 2] । 'फलमत उपपत्ते:' (ब्र.सू.३-५-३७)
इत्यधिकरणार्थश्च दर्शितः ।
 

त्रिविधानां चेतनानां अचेतनानाञ्च पराधीनत्वादिसाम्यादेवंभूतं वस्त्वन्तरं

नास्तीत्यभिप्रायेणाह - स्वेतरसमस्तवस्तुविलक्षण इति । एतेन ज्ञानभोग साम्येऽपि
सर्वप्रकारसाम्यनिषेधस्सिद्धः । 'नित्यं विभुं सर्वगतं सुसूक्ष्मम्), (मुं.उ.१-१-६) 'विश्वमेवेदं
पुरुषः' (महाना.उ.११-२५) इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह - अनन्त
इति सर्वव्यापित्वात् देशपरिच्छेदराहित्यम् । सर्वकालवर्तित्वात् कालपरिच्छेदाभावः ।

साक्षात्परम्परया वा सर्वप्रकारित्वेन सर्ववस्तुसामानाधिकरण्यार्हत्वात् वस्तुपरिच्छेदविरहः ।
येन केनापि प्राशस्त्येन स्वस्मादुत्कृष्टैः कैश्चिद्वस्तुभिः अधरीकृतत्वाभावाद्वा । तद्विग्रहादीनान्तु
सन्तोऽपि केचिदतिशयास्तद्वि भूतिगता एवेति तैरपि तस्यैवोत्कर्षः । वितस्त्यादिभिः
प्रस्थतुलादिभिश्च परिच्छेदो देशपरिच्छेदान्तर्गत एवेति'[^3] तन्निषेधेन सोऽपि निषिद्धः ।

'वस्त्वन्तरशून्यत्वाद्वा, सर्ववस्तुस्वरूपैक्याद्वा वस्तुपरिच्छेदाभावः' इति पक्षौ तु
सर्वप्रमाणविरुद्धौ अनन्तपदपूर्वापर श्रुतिविरुद्धौ च ।
 

 
 
[^
1]. अनिष्टनिवर्तकत्वमिष्टप्रापकत्वञ्चेत्यर्थः - अ ।
[^
2]. अर्थात्सिद्धम् - आ ।
 

[^
3]. इति - आ ।