This page has been fully proofread once and needs a second look.

28
 
[ शरण्यत्वोपपादकानि भगवत्सम्बोधनानि भगवच्छरणागतिश्च]

अखिलहेयप्रत्यनीक-कल्याणैकतान
 
-
 

श्रु. भा.- प्रत्यनीक इति न केवलं विरहमात्रमित्यर्थः । आनन्दकल्याणशब्दौ स्वपरापेक्षया
अनुकूलत्वपरौ । आनन्दविवरणं वा कल्याणशब्दः । कल्याणानां गुणानां[^1] एकास्पदमिति
वा कल्याणैकतानशब्दार्थः । यद्वा स्वसम्बन्धिनामपि मङ्गलावहता कल्याणशब्दार्थः ।
एकशब्देन प्रदेशभेदेन जडत्वप्रतिकूलत्वव्युदासः ।
 
शरणागतिगद्यम् -
 
BAGAGAVAGRÜNÜDÜAKSÜZURÜAURUAGAYAGAÜAÜRÜAKAGAGRUA
 

र.र. - बहुव्रीहावन्यपदार्थञ्च दिव्यात्मस्वरूपं तावदाह - अखिल इति । अत्र सम्बुध्यन्तप्रयोगात्
व्याख्येयेऽपि तथात्वेन त्वच्छब्दाध्याहार इति केचित् । श्रीमन्नारायण ! स्वामिन् ! (द्व.मं.)
इत्यादौ मन्त्रान्तरे च ±तद्द्रष्टव्यम्'[^2] । अन्ये तु, 'प्रार्थनानुगुणतात्पर्यानुसारेण सम्बुद्धिरिह
प्रयुज्यत' इत्याहुः ।
 

अखिलहेयप्रत्यनीकत्वम् - अखिलहेयात्यन्ताभाववत्त्वम् । तेन कतिपय- हेयरहितेभ्यो
व्यवच्छेदः । कल्याणैकतानत्वम् - कल्याणानां सर्वेषां गुणानाम् असाधारणाश्रयभूत-
विस्तारत्वम्; नित्यादीनामपि न सर्वमङ्गल गुणवत्वम् । 'समस्तहेयरहितं विष्ण्वाख्यं
परमं पदम्', (वि.पु.१-२२-५३) 'तेजोबलैश्वर्यमहावबोधसुवीर्यशक्तयादिगुणैकराशि:)
'. (वि.पु.६-५-८५) 'स च सर्वगुणोपेतः' (रा.बाल.१-१७) इत्यादि प्रसिद्धोभयलिङ्गाधिकरणार्थः

उपयोगातिशयात्प्रथममिहोक्तः ।
'नराज्जातानि तत्त्वानि' (म.भा. आनु.१७८-७) इत्याद्युक्त-
कारणत्वादि शङ्कितमचिद्तं चिद्तञ्च विकारापुरुषार्थादिकं प्रणतोपेक्षादिपर्यन्तमवद्यं न

किञ्चिदप्यस्यास्ति । न च कल्याणगुणेष्वस्याविद्यमानः कश्चिदित्यर्थः । पश्चात्तु ज्ञानबलादि-
गुणोक्तिः - एतद्विवरणम् । स्वरूपनिरूपकं ज्ञानत्वादि- कमप्यत्र कल्याणशब्देन
सामान्यतस्सङ्गृहीतम् । एवं सगुणनिर्गुण श्रुत्योर्विषयभेदेन अविरोधात् कुदृष्टिपक्षश्च निरस्तः ।
 
1. गुणानां वाइ । 2. तद्दृष्टम् अ ।
 

यद्वा, कल्याणैकतानम् प्रदेशभेदेन कालभेदेनापि अकल्याणत्वरहित- मित्यर्थः ।
'ज्ञानानन्दैकस्वरूप' इति तु तद्विशदीकरणम् । ज्ञानतया आनन्दतया च कार्त्स्न्येन
3
कल्याणत्वमुक्तं[^3] भवति । जडाद्भोग्यात् प्रतिकूलोदासीनरूपज्ञानाभ्याञ्च व्यवच्छेदाय
 
-
 

 
 
[^1]. गुणानां वा -इ ।
[^2]. तद्दृष्टम् अ ।
[^
3]. कल्याणत्वमित्युक्तं आ ।