2023-04-07 05:35:54 by ambuda-bot
This page has not been fully proofread.
28
[ शरण्यत्वोपपादकानि भगवत्सम्बोधनानि भगवच्छरणागतिश्च]
अखिलहेयप्रत्यनीक-कल्याणैकतान
-
श्रु. भा. प्रत्यनीक इति न केवलं विरहमात्रमित्यर्थः । आनन्दकल्याणशब्दौ स्वपरापेक्षया
अनुकूलत्वपरौ । आनन्दविवरणं वा कल्याणशब्दः । कल्याणानां गुणानां एकास्पदमिति
वा कल्याणैकतानशब्दार्थः । यद्वा स्वसम्बन्धिनामपि मङ्गलावहता कल्याणशब्दार्थः ।
एकशब्देन प्रदेशभेदेन जडत्वप्रतिकूलत्वव्युदासः ।
शरणागतिगद्यम् -
BAGAGAVAGRÜNÜDÜAKSÜZURÜAURUAGAYAGAÜAÜRÜAKAGAGRUA
र.र. - बहुव्रीहावन्यपदार्थञ्च दिव्यात्मस्वरूपं तावदाह - अखिल इति । अत्र सम्बुध्यन्तप्रयोगात्
व्याख्येयेऽपि तथात्वेन त्वच्छब्दाध्याहार इति केचित् । श्रीमन्नारायण ! स्वामिन् ! (द्व.मं.)
इत्यादौ मन्त्रान्तरे च ±तद्द्रष्टव्यम्' । अन्ये तु, 'प्रार्थनानुगुणतात्पर्यानुसारेण सम्बुद्धिरिह
प्रयुज्यत' इत्याहुः ।
अखिलहेयप्रत्यनीकत्वम् - अखिलहेयात्यन्ताभाववत्त्वम् । तेन कतिपयहेयरहितेभ्यो
व्यवच्छेदः । कल्याणैकतानत्वम् - कल्याणानां सर्वेषां गुणानाम् असाधारणाश्रयभूत-
विस्तारत्वम्; नित्यादीनामपि न सर्वमङ्गलगुणवत्वम् । 'समस्तहेयरहितं विष्ण्वाख्यं
परमं पदम्', (वि.पु.१-२२-५३) 'तेजोबलैश्वर्यमहावबोधसुवीर्यशक्तयादिगुणैकराशि:)
(वि.पु.६-५-८५) 'स च सर्वगुणोपेतः' (रा.बाल.१-१७) इत्यादि प्रसिद्धोभयलिङ्गाधिकरणार्थः
उपयोगातिशयात्प्रथममिहोक्तः । 'नराज्जातानि तत्त्वानि' (म.भा. आनु.१७८-७) इत्याद्युक्त-
कारणत्वादिशङ्कितमचिद्रतं चिद्रतञ्च विकारापुरुषार्थादिकं प्रणतोपेक्षादिपर्यन्तमवद्यं न
किञ्चिदप्यस्यास्ति । न च कल्याणगुणेष्वस्याविद्यमानः कश्चिदित्यर्थः । पश्चात्तु ज्ञानबलादि-
गुणोक्तिः - एतद्विवरणम् । स्वरूपनिरूपकं ज्ञानत्वादिकमप्यत्र कल्याणशब्देन
सामान्यतस्सङ्गृहीतम् । एवं सगुणनिर्गुणश्रुत्योर्विषयभेदेन अविरोधात् कुदृष्टिपक्षश्च निरस्तः ।
1. गुणानां वाइ । 2. तद्दृष्टम् अ ।
यद्वा, कल्याणैकतानम् प्रदेशभेदेन कालभेदेनापि अकल्याणत्वरहितमित्यर्थः ।
'ज्ञानानन्दैकस्वरूप' इति तु तद्विशदीकरणम् । ज्ञानतया आनन्दतया च कार्त्स्न्येन
3 कल्याणत्वमुक्तं भवति । जडाद्भोग्यात् प्रतिकूलोदासीनरूपज्ञानाभ्याञ्च व्यवच्छेदाय
-
3. कल्याणत्वमित्युक्तं आ ।