This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
27
 
[ प्रार्थनाया: भगवता सफलीकरणम् ]
 
अस्तु ते ॥ ३ ॥ तयैव सर्वं सम्पत्स्यते ॥ ४ ॥
 
श्रु.भा. - 'स्वसम्बन्धिसम्बन्धिनिस्तरण मपि सर्वशब्दाभिप्रेतम् ।
 
अथ द्वयस्थं नारायणशब्दं विवृणोति अखिल इत्यादिना । तत्र प्रथमपदेन
नारशब्दवाच्यानां धर्म्युच्यते । अखिलशब्दः चिदचिद्रतक्लेशादिभावविकारादिहेयपरः ।
 
KAUAWRUAUAYAKAYAGAYAGAYAGAGAWRYAURUAÜRÜPÜRÜPÜSUR
 
र.र. - वादिन्याश्शरणागतविषये कैमुत्यसिद्धमिदं वरप्रदानवाक्यमित्युत्प्रेक्ष्य प्रोक्तम् ।
ते मयि न्यस्तभरस्य मया स्वीकृतभरस्य च ।
 
'उपायदानमेतस्यास्तदिदं प्रतिसंमतम् ।
 
यथा तस्याः प्रसीदन्त्या हारदानं हनूमते' ॥ इति ।
 
भगवत्प्रपत्तेः पूर्वोक्तनित्यकैङ्कर्यप्राप्तिपर्यन्तफलाविनाभावमाह तयैव सर्वं सम्पत्स्यते
इति । एवकारेण अत्र उपायान्तरव्यवधाननैरपेक्ष्यं द्योत्यते । यद्वा अस्तु ते इत्येतावतैव
पर्याप्ते तयैव इत्यादिकं विभीषणसहागतराक्षसन्यायेन यथाभिमतानुबन्धिरक्षणाभिप्रायम् ।
अथवा, श्लोकत्रयोदितज्ञानित्वादिकमत्र परत्र च यत्प्रार्थयिष्यते, तत्सर्वमिह सर्वशब्दार्थः ।
उक्तेन सह वक्ष्यमाणमनुक्तञ्च अनुबन्धिरक्षणम् अभिमतत्वाविशेषात् सङ्कलय्य प्रोच्यते ।
सम्पत्स्यते इति भविष्यन्निर्देशः - प्रपत्त्यनन्तरक्षणप्रभृति तत्तदुचितकालाभिप्रायः ।
वदान्यत्वव्यञ्जकञ्चेदं वाक्यद्वयम्; 'प्रियवाग्दानशीलो हि वदान्यः' (हला को. २-२११) ।
 
स्वसम्बन्धिनिस्तरण - इ ।
 
एवं श्रीमच्छब्दाभिप्रेतमर्थं उपयोगविशेषपर्यन्तमुदाहृत्य प्राप्यत्व-प्रापकत्व
उपयुक्तसर्वाकारसंग्राहक्नारायणशब्दं व्याचिख्यासुः; तत्र तत्पुरुष व्युत्पत्तौ अयनशब्दार्थं,
 
-
 
2. वा उक्तम् - आ 13 वृत्तौ - अ ।