2023-04-07 05:35:53 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
र.र. - अन्ये तु, स्वातन्त्र्याभ्युपगमेऽपि षड्विधा शरणागतिः' (अहि.सं.३७-२९)
इति वचनानुरोधादानेयादिषट्कवत् सम्भूय साधकत्वमाहुः । तत्रैव षण्णां प्रत्येकं
साधनत्वमपरे । तेष्वेव यथेष्टं केचित्कतिपयोपेक्षया कतिपयपरिग्राहिणः । नियतैकसङ्ग्रहेऽपि
स्वरूपन्यासमात्रत्वम् । प्रार्थनाभरन्यासयोरन्यतरमात्रत्वम् । तयोरेव यथेष्टमङ्गाङ्गित्वम्,
विकल्पं वा केचिदाहुः ।
25
इतरे च प्रपत्तेरविधेयज्ञानरूपत्वम्, अनिवारणादिरूपत्वम्, दक्षिणाज्ञादिहेतुकभरन्यासा -
विशिष्टत्वम्, अनङ्गत्वं, द्वित्राद्यङ्गत्वम्, सर्वधर्मस्वरूपत्यागाद्यङ्गकत्वम्, भक्तियोगवत्
आप्रयाणादनुवर्तनीयत्वम्, भक्तियोगाद्यङ्गकत्वम्, आरब्धकार्यपुण्यपापनिवर्तनाक्षमत्वम्,
किं बहुना? गृहागमनाऽञ्जलिप्रणामादिमात्रताञ्च प्रतिपादयन्ति । एवं विप्रतिपत्तियोग्यतया
दुष्करः प्रपत्तेर्निष्कर्षः । स तर्हि कथं स्यात् ? उच्यते
तत्र तावत् भक्त्यैक्यादिपक्षान्निक्षेपरक्षादिषु निराकार्ष्म! षाड्विध्योक्तिरपि 'न्यासः
पञ्चाङ्गसंयुत:' (ल.तं.१७-७४) इतिवचनबलादष्टाङ्गयोगोक्तिवदाङ्गाङ्गिसमुञ्चयेन स्थापिता ।
अत एव हि 'षडङ्गं तमुपायञ्च' (ल.तं. १७-५९) इत्यादिकमपि सङ्गच्छते; स्वरूपन्यासस्य
अत्रापेक्षितत्वेऽपि 'आत्मात्मीयभरन्यासः, (ल.तं.१७-७९) 'त्वयि निहितभरोऽस्मि सोऽहं
यतः' (व.स्त.९१) 'तव भरोहमकारिषि धार्मिकैः' (श्रीरं. स्त. २-१०२) इत्यादिप्रमाणसम्प्रदायैः
भरन्यासप्राधान्यं सिद्धम् ।
यद्यप्युक्तं भरतमुनिना
'अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः' ॥ (भरतमुनिवाक्यम्) इति । यदपि
च अहिर्बुध्न्येन 'प्रार्थनामतिश्शरणागतिः' (अहि.सं. ३७-३१) इति । तत्रापि पूर्वोक्तप्रमाणानुसारात्,
अनन्यसाध्यत्वतदेकोपायत्वोक्तितात्पर्याच्च, प्रार्थनापूर्वकभरन्यासात्मकत्वसिद्धिरित्येषा
दिक् । अतो दुरवगाहत्वद्योतनाय पारमार्थिकी इत्यादिसामान्यनिर्देश उपपन्न इति ।
एवमीदृशभरन्यासात्मकतया शरण्यत्वोपयुक्ताकारविशिष्टपरतत्वविषयतया च
निरूप्यायामस्यां प्रपत्तौ, स्वरूपतो विषयतश्च तमः कार्यवैपरीत्यविरहः पारमार्थिकत्वम् ।
प्रकारतोऽङ्गतश्च रजःकार्यप्रकारान्यथाभावराहित्यम्, यथाप्रमाणं फलसङ्गकर्तृत्वादित्यागश्च
अत्र यथावस्थितत्वम् । राजस-तामसबुद्धिप्रकारश्च 'यया धर्ममधर्मञ्च' (भ.गी.१८-३१)