This page has not been fully proofread.

पारमार्थिकी भगवञ्चरणारविन्दशरणागतिः यथावस्थिता
 
श्रु.भा.
 
पारमार्थिकी इति तमः कार्यव्युदासाय । आनुकूल्यादिशरीरवती;
 
तद्धि तस्या उपायान्तरेभ्यः व्यावृत्तं स्वरूपम् । यथावस्थिता इति रजःकार्यव्युदासाय ।
प्रपत्तव्यविषयसम्बन्धरूपः प्रकारः । तत्साहित्यमभिप्रेतम् । शरणवरणानहे शरण्यत्वधीर्हि
अयथावस्थिता स्यात् ।
 
-
 
-
 
24
 
शरणागतिगद्यम् -
 
SAVAVAVAUXÜKÜRÜNÜŞÜNÜRÜZÜSVAVAVAGRÜAŰRUAWASAKRUA
 
र.र. एवमिह अपेक्षया इत्यन्तं व्याख्येये सोपबृंहणचतुर्थ्यभिप्रेतस्य प्रपञ्चनम् ।
भगवत एव शरणत्वे वक्तव्येऽपि, दिव्यविग्रहस्य शरण्यगुणादिव्यञ्जकत्वम् । चरणग्रहणस्य
कृपोत्तम्भकत्वातिशयेन अनतिक्रमणहेतुत्वञ्चाभिप्रेत्य चरणशब्दः । अरविन्दशब्दः
उपायदशायामपि भोग्यत्वं सूचयति । अत्र भगवच्छब्दः निरपेक्षरक्षणौपयिकाकार-
पौष्कल्यप्रदर्शकः ।
 
{
 
कृत्स्नविदपि भाष्यकारः प्रश्रयप्रकाशनाय पारमार्थिकी, यथावस्थिता इति सामान्यतो
निर्दिशति । 'त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे) (कौषी.उ.१)
'यद्धितं मम देवेश ! तदाज्ञापय माधव !' (जि. स्तो. १-१८) इतिवत् । एतेन
भगवत्प्रपत्तिर्मोक्षसाधनत्वम्' इत्येतावन्मया निर्णीतम् । सा यत्स्वरूपा यत्प्रकारे ति
च न जाने; अतस्त्वयैव वत्सलतया मोक्षार्थभगवत्प्रपत्तेस्स्वरूपादिकं यथाप्रमाणं ज्ञापयित्वा
अनुष्ठापनीयोऽहम् इति विशेषनिष्कर्षरहितानामपि विज्ञापनप्रकारश्शिक्षितो भवति ।
एवं सामान्यत उक्तेऽपि सर्वज्ञा सर्वहितैषिणी देवी स्वयमेव सर्वं विधास्यतीति
तात्पर्यम् ।
 
'देवानां गुह्यम्' (महाना.उ.१० २२) इत्याद्युक्तं गोपनीयतमत्वम्, तत एव तत्र
तत्र तदनुगुणनिर्देशः प्रपत्तिस्वरूपादेर्दुरवगाहत्वञ्च सामान्यनिर्देशेन द्योत्यते ।
 
1. भगवत्प्रपत्तेर्मोक्षसाधनम् अ ।
 
ननु सर्वलोकसर्वागमप्रसिद्धायाः प्रपत्तेः कथं दुरवगाहत्वम् ? इत्थम्; - केचित्
भक्तिप्रपत्त्योर्व्यतिकरितप्रयोगादैक्यमिच्छन्ति । लक्षणभेदाद्भेदमिच्छन्तोऽपि केचित् स्वातन्त्र्येण
मुक्तिसाधनत्वं नानुमन्यन्ते ।