This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
23
 
नित्यकैङ्ङ्कर्यप्राप्त्यपेक्षया,
 
श्रु. भा. - स्वेन कृतत्वेऽपि परप्रीतिरेव फलम् । 'प्रहर्षयिष्यामि' इति ह्युच्यते;
तस्मादन्यकृतत्वेऽपि कैङ्कर्यस्य तज्जनितपरप्रीतिं दृष्ट्वा स्वकृतत्वे सतीव प्रीतिस्सर्वेषां
जायत इति तादृशप्रीतिरूपं कैङ्कर्यमित्यर्थः; इति मन्त्रचतुर्थ्यर्थोक्तिः ।
 
GRÜAURYAKRÜPÜRÜZÜRUAÜRÜDÜRYAÜRÜPÜRÜKÜRÜTÜRÜNÜRÜN
 
'
 
र.र. - नित्यत्वोक्तिः 'प्रलये न व्यथन्ति च' (भ.गी. १४- २) इति हि गीतम् । स्वामिसमादेशापेक्षी
तच्चोदितकारी किङ्करः, तस्य वृत्तिः कैङ्कर्यम् । तस्य अन्यैर्दुष्प्रापत्वेन अलभ्यलाभत्व-
सूचनार्थम्, इतःपूर्वं प्राप्तेरभावादप्राप्तप्राप्तिपक्षव्युदासेन अपेक्षार्हत्वज्ञापनार्थञ्च अधिकः
प्राप्तिशब्दः । 'सम्पद्याविर्भावः' (ब्र.सू. ४-४-१) इत्यादिकं हि नित्यसिद्धेष्वेवाकारेषु मुख्यम्;
न तु साध्ये निरङ्कु शविकासे तत्पूर्वक व्यापारे च । तत्र तु
निवृत्त'प्रतिबन्धस्वरूपोपाधि'कत्वसूचनार्थम् । 'आविस्स्युर्मम सहजकैङ्कर्यविधयः' (अ.श्लो.३)
इत्यभियुक्तैरुक्तम् ।
 
'आत्माभिमानानुगुणपुरुषार्थव्यवस्थया ।
भगवत्पारतन्त्र्यादि प्रबुद्धस्य सुखाते ॥
परेच्छायत्तभूम्नोऽपि स्वेच्छाया अविघाततः ।
 
'सर्वं परवशं दुःखम्' (म.स्मृ.४-१६०) इत्याद्यं नात्र बाधकम्' ॥
 
1. प्रतिबन्धोपाधि - आ ।
 
'स्वतश्शेषत्वकैङ्कर्ये न कुत्राप्यसुखावहे ।
कर्मजत्वात्तथात्वस्य लोके च व्यभिचारतः ॥
महानन्दमहिम्ना च प्राग्दुःखावेक्षणादपि ।
मोहदुःखे तदा स्यातामिति मूढस्य जल्पितम् ॥
सुखस्य मोहनत्वञ्च तामसत्वाद्युपाधिभिः ।
सुखाय च भवेत्वापि पूर्वदुःखावमर्शनम् ॥