This page has not been fully proofread.

22
 
अशेषावस्थोचित - अशेषशेषतैकरतिरुप-
श्रु. भा. - अशेषावस्था:- आस्थानान्तः पुरस्थित्यादयः । अशेषशब्दः छत्र-
चामर-कळाची-पादुकाग्रहण-ताम्बूलदानादिपरः ।
 
अनन्तवैनतेयादीनां सर्वविधकैङ्कर्यप्राप्तावपि कैङ्कर्यं प्रतिनियतं दृश्यते,
तत्कथमिति शङ्कायामाह रतिरूप इति ।
 
KAMAKSUAUSUAKRUAWAUZURÜNÜRÜLÜPÜAÜRÜLÜRÜPÜRÜZURUA
 
र.र. 'स यदि पितृलोककामो भवति' (छां. उ.८-२-१) इत्यादिष्वप्युक्तम् । अशेषावस्था-
शब्देन परव्यूहादयः स्थानासनशयनादयः जगत्सृष्ट्यादयश्च भगवतोऽवस्थाः, स्वस्य च
सशरीरत्वाशरीरत्वानेकशरीरत्वरूपा गृह्यन्ते; कैङ्कर्यस्य तत्तदवस्थोचितत्वं, यथालोकं
यथागमं च चामरग्रहणादिना भोक्तृतया भोग्यतया च सन्निधाय कृतत्वात् ।
 
शरणागतिगद्यम् -
 
अशेषशेषता आत्मनः आत्मीयस्य च सर्वस्य परशेषभावः । यद्वा,
सर्वप्रकारशेषवृत्तिः । अनन्तगरुडादिप्रतिनियताधिकारकृत्येषु मुक्तस्येच्छाविरहात्,
इष्यमाणेष्वपि सर्वेषु ''स एकधा भवति ) (छां.उ.७-२६-२) 'तावन्ति चक्रे रूपाणि
भगवान् देवकीसुतः, इति प्रकारेण शेषशेषिणोः यथाभिमतरूपपरिग्रहेण मुक्तस्य
स्वाभिमतसर्वशेषवृत्तिस्स्यादेव । तस्याम् एकशब्देन स्वप्रयोजनप्राधान्यव्युदासः । अथवा,
नित्यानां मुक्तानाञ्च भगवत्प्रीतिफलासु सर्वासु शेषवृत्तिषु परकृतासु स्वकृतासु च
प्रीत्यविशेषो विवक्षितः । 'नित्याभिवाञ्छितपरस्परनीचभावैः) (वै स्त.७७) 'याभिस्त्वं
स्तनबाहुदृष्टिभिरिव' (श्रीगु.र.को.२६) इत्यादिन्यायाच्च । एकरूपा वा रतिः एकरतिः,
कालभेदेन सङ्कोचाद्यभावात् । रतिरिह प्रीतिरिच्छा वा; तया हेतुभूतया कैङ्कर्यं निरूप्यत
इत्यभिप्रायेण रूपशब्दः । शेषतैकरतिः इत्येतत् श्रीवैकुण्ठगद्ये 'परिचर्यैकमनोरथः' इत्यनेन
विवृतम् । अत्रानुभवरतिकैंकर्यशब्देषु ज्ञानचिकीर्षाप्रयत्नक्रमश्च प्रकाशितः ।
 
1. स एकधाभवति, द्विधाभवति, अनेकधाभवति
 
2. तत्परीवाहतया आ ।
 
-
 
यद्वा, शेषतैकरतिरेव कैङ्कर्यप्रधानं स्वरूपम्; तत्परिवाहतया' तु व्यापारान्तराणि
भवन्तीत्यभिप्रायः । प्राकृतप्रलयादिष्वपि अविच्छिन्नप्रवाहतया अत्रत्यकैङ्कर्यायावृत्यर्थं
 
-
 
अ ।