This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
21
 
अनन्यप्रयोजनानवधिकातिशय - -प्रिय- भगवदनुभवजनित-
अनवधिकातिशयप्रीतिकारित
 

श्रु.भा. - प्रयोजनान्तरार्थत्वव्युदासाय अनन्यप्रयोजनत्वम् । तत्र हेतुः अनवधिकातिशयप्रियत्वम् ।
प्रयोजनान्तरत्वाभावेऽपि सावधिकातिशय- प्रियत्वव्युदासार्थम्; अनवधिकातिशयप्रियत्वमुक्तम् ।
ईदृशानुभवेन जनिताऽनवधिकातिशयप्रीतिः - 'अहो मया ईदृशानुभवो लब्धः' इति

पूर्वानुभवलब्धविषयनिरवधिकातिशयानुकूलप्रीतिसन्तानरूपा । तया अनुकारितम् ।
 
YAGAGRGAURYAGBGAGRYAURYAUPYAUDYNUÁYAGPUPURUPURPUR
 

र.र. - अत्र प्रीतिहेतुत्वाभिधानेऽपि तदर्थबुध्या उपादेयत्वाभावादनन्य-

प्रयोजनत्वमविरुद्धम् । तत्र हेतुः अनवधिकातिशयप्रियत्वम् । भगवदनुभव इत्यनेन मुक्तौ
पाषाणकल्पत्वपक्षः । स्वात्ममात्रानुभवनिर्गुणप्राप्त्यादिवादश्च व्युदस्यते । सर्वविशिष्टब्रह्मानुभवे
प्रधानानुभाव्यञ्च व्यञ्जितम् ।
 

अत्र अनुभवजनितप्रीतिर्नाम 'निरतिशयानुकूलोऽयं विषयो मया अनुभूयते' इति ।
स्वयमपि निरतिशयानुकूल्यवती कृतार्थता बुद्धिः । 'कृतार्थोऽस्मी त्यमन्यत' इतिवत् ।
सा च सामग्र्यनुवृत्त्या प्रतिक्षणभाविनी प्रवाहविच्छेद- रहिता चेत्येके । अन्ये तु
प्रीतेस्स्वरूपतोऽनुवृत्तत्वेऽपि पूर्ववदनुभवस्यैव प्रयोज्यप्रयोजकाकारविभागेन जन्यजनक-
वाचोयुक्तिः इति ।
 
-
 
-
 

अस्याश्च प्रीतेः अनवधिकातिशयत्वं प्रीत्यन्तरापेक्षया निकृष्टत्वविरहात् । ईश्वरस्य
नित्यानामपि हि न मुक्तेभ्योऽतिशयिता प्रीतिः । 'श्रोत्रियस्य चाकामहतस्य (तै. उ. आन. ८)
'भोगमात्रसाम्यलिङ्गाञ्च' (ब्र.सू.४-४-२१) इति समानभोगव्यवस्थापनात्, ईश्वरनित्यमुक्त-
भोगानां उपचयापचय- तारतम्यवादयोः अपन्यायमूलत्वाञ्च । कैङ्कर्यस्य भगवदिच्छा-
कारितत्वेऽपि 'प्रहर्षयिष्यामि' (स्तो.र.४६) इति, तत्प्रीत्युद्देशेन प्रवृत्तत्वेऽपि प्रीतिकारिता

इत्यादिना 'यथार्हं केशवे वृत्तिम्' (म.भा.उ.३९-३८) इति न्यायात् प्रीतेः प्रेरकत्वातिशयेन
स्वरसप्रवृत्तिर्नियोगनैरपेक्ष्यञ्च द्योत्यते ।
 

एवं प्रीत्या प्रवृत्तस्यापि कैङ्कर्यविशेषेषु स्वाम्यभिमतिविशेषास्त्वनुरोधनीयाः । तादृशमेव
च कैङ्कर्यम्, 'एतत्सामगायन्नास्ते', (तै.उ. भृ.१०) 'जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा , (छां. उ. ८-१२-३)