2023-04-07 05:35:52 by ambuda-bot
This page has not been fully proofread.
20
परिपूर्णानवरत - नित्य-विशदतम-
र.र.
श्रु.भा. - परिपूर्णत्वादिपदषट्कं अनुभवविशेषणम् । परव्यूहादि सर्वावस्थभगवद्विषयत्वं
परिपूर्णत्वम्; सकृत्वव्यावृत्त्यर्थं अनवरतत्वम् । अविरतेच्छावधिमत्वव्युदासाय नित्यत्वम् ।
विरतनित्यत्वव्युदासाय अनवरतत्वम् । स्नानाग्निहोत्रादिकं हि विरतनित्यम् ।
परोक्षत्वव्युदासाय विशदतमत्वम् ।
शरणागतिगद्यम् -
GRÜNKRUAURYAGRUAURYAGAYAGAGAGAGAURYAGPUPURUAUREA
'प्रपत्तेः क्वचिदप्येवं परापेक्षा न विद्यते,
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ (सन. सं.)
इत्यादिभिस्सर्वाभिमतसाधनत्वावगतेः; सर्वफलसाधारणमपि चरमश्लोकविधेयं तत्र
प्रकृतोपायविरोधिपापनिवर्तनरूपोदाहरणविशेषे प्रदर्शयामास । इह तु साध्यान्तर-
साधनान्तररहितमन्त्रविवरणप्रवृत्तत्वात्, प्राप्तिविरोधिनिरसनार्थतया उदाहरति ।
'तस्मान्नोपाय'भक्त्यादिक मिहोच्यत' इति सिद्धम् ।
परभक्त्यादिभिस्साध्यमनुभवादिकं तदभावेऽपि मे प्रपत्तिमात्रेण भवत्विति विवक्षायां
प्रस्तुतविरोधाभावेऽपि, वक्ष्यमाणानुसारेण विवक्षान्तरं दर्शितम् ।
'आर्तोपच्छन्दनं गद्यं भाष्यन्तु पररञ्जनम् ।
इत्याविलधियोऽप्येवं प्रसीदेयुः प्रमाणतः' ॥
पुनश्च मुक्तानुभवं परिपूर्णेत्यादिभिः षड्भिः विशिनष्टि । अत्र हि मुमुक्षूणां
भगवदनुभवविशेषेषु यथासम्भवं सुकृततारतम्येन परिमिताकारगोचरत्वम्, खद्योतस्फुरणवत्
सान्तरत्वम्, 'कंचित्कालम् निरन्तरत्वेऽपि सारस्वतस्रोतोन्यायेन विच्छिन्नप्रवाहत्वम्;
सामान्यतस्सर्वविषयत्वेऽपि परोक्षरूपत्वम्, स्वयंप्रियत्वेऽपि मधुरभेषजनयेन
मुक्तिरूपस्वप्रयोजनसाधनत्वबुध्या उपादेयत्वम्, अत एव सावधिकरसत्वञ्च स्यात् ;
निश्शेषनिवृत्तप्रतिबन्धस्य तु न तथेति भावः ।
1. भूतपरभक्त्यादिक- अ । 2. किञ्चित्कालं आ ।