2023-04-07 05:35:52 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
'यद्येन कामकामेन न साध्यं साधनान्तरैः ।
मुमुक्षुणा यत्साङ्ख्येन योगेन न च भक्तितः ॥
प्राप्यते परमं धाम यतो नावर्तते यतिः ।
तेन तेनाप्यते तत्तन्यासेनैव महामुने! ॥
परमात्मा च तेनैव प्राप्यते पुरुषोत्तमः' ॥ (अहि.सं.३७-२५,२६,२७) इति ।
प्रपपत्तियोगश्च अविलम्बित फलप्रद एवं ' उदाहृतः ।
र. र.
19
'अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः ।
त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयु॑ज्यताम् ।
तस्यानुबन्धाः पाप्मानस्सर्वे नश्यन्ति तत्क्षणात्' ॥ (अहि.सं.३७-३०,३१)
इति । अत्रापि 'त्वमेवोपायभूतो मे भव' इत्यादिभिः, न्यासात्मकत्वं सूच्यते । तेषान्तु
तपसां न्यासमतिरिक्तं तपश्श्रुतम्' (अहि. सं. ३७-३६) । इति चाह; न्यासशब्दस्य चात्र
शरणागतिविषयत्वं दर्शितम् -
'निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः ।
सन्यासस्त्याग इत्युक्तश्शरणागतिरित्यपि ॥ इति । (ल.तं. १७-७४)
'न्यास इत्याहुर्मनीषिणो ब्रह्माणम्' (महाना.उ.६३-७९) इत्यत्र न्यासशब्द-
सामानाधिकरण्यन्त्वन्यपरम् । एवं स्वतन्त्रप्रपत्तिसिद्धौ -
'भक्तया परमया वाऽपि प्रपत्त्या वा महामते ! ।
प्राप्योऽहं नान्यथा प्राप्यो मम कैङ्कर्यलिप्सुभिः' ॥ इति विकल्पोऽपि
व्यवस्थितविषय उपपद्यते । श्लोकत्रयोदितज्ञानादिकमप्यत्र स्वयम्प्रयोजनतया प्रार्थ्यत इति
न विरोधः ।
न च प्रपत्तिस्वातन्त्र्ये भाष्यविरोधः । तथा हि 'चतुर्विधा भजन्ते मां
जनास्सुकृतिनोऽर्जुन'! (भ.गी. ७ - १६) इत्यादिनोपासनस्येव, प्रपदनस्यापि -
'तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम्' ॥ (वि.पु.१-९-७३)
1. प्राप्तिपर्यन्त एव - अ ।