2023-04-07 05:35:52 by ambuda-bot
This page has not been fully proofread.
परभक्ति - परज्ञान- परमभक्तिकृत-
-
18
श्रु. भा. - उत्तरोत्तरसाक्षात्काराभिनिवेशः परभक्तिः । साक्षात्कारः परज्ञानम् ।
उत्तरोत्तरानुभवाभिनिवेशः परमभक्तिः ।
GRUAGAYAGRUAURUAURUAKRUAGAKAKAYAGRVAKRÜPÜRYAUAYA
र.र. अत्र परभक्ति: उत्तरोत्तरसाक्षात्कारेच्छात्मिका धीः, सा च 'या प्रीतिः '
(वि.पु.१-१९-२०) इत्यादिष्विव विषयस्वभावजा, न त्विष्टसाधनत्वबुद्धिजा । परज्ञानम् -
उत्तरोत्तरसाक्षात्कारः । साक्षात्कृते निरन्तरानुबुभूषा परमभक्तिः । अनुभवस्त्विह
अनुकूलतमत्वेन साक्षात्कार एव । नित्यानां मुक्तानाञ्च नित्यानुवृत्तैक' रूपानुभव:' क्षणभेदेन
परभक्तित्वाद्याकार भेदैश्च विकल्प्यते । पूर्वपूर्वक्षणेषु उत्तरोत्तरक्षणावच्छिन्नस्वरूपस्य
इष्टतमत्वमभिप्रेत्य कृतत्वव्यपदेशः । तस्य मुख्यत्वन्तु योगविशेषजन्यानुभवे ।
ननु इहोपायभूतपरभक्त्यादिभिः 'मुक्त दशानुभवस्य कृतत्वं मुख्यमेवास्तु; तथासति
उपरि श्लोकत्रयोदितज्ञानस्य स्थानत्रयोदितपरभक्तेश्च प्रार्थनमुपपद्येत । तदर्थञ्च यथाभाष्यं
सम्प्रतिपन्नाङ्गप्रपत्तिरिह प्रार्थिता स्यात् ? मैवम्, 'प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य तदानीमेव
मत्प्रसादलब्धमझरणार विन्द युगलै कान्तिकात्यन्तिक पर भक्तिपरज्ञान' इत्यादि-
वक्ष्यमाणसरूपतया तदनुगुणमिह व्याख्यातुमुचितत्वात् ।
शरणागतिगद्यम् -
[भगवत्प्रपत्तेः स्वतन्त्रतया मोक्षसाधनत्वस्थापनम्]
न च भगवत्प्रपत्तेस्स्वतन्त्रतया मोक्षसाधनत्वं नास्तीति वाच्यम्, श्रुतिस्मृति-
भगवच्छास्त्रेषु तत्स्वातन्त्र्यदृष्टेः ।
'यो ब्रह्माणम्' (श्वे.उ.६-१८) इत्यादिके हि श्वेताश्वतरमन्त्रे हिरण्यगर्भादिकारणभूत-
परमपुरुषशरणागतिः मुमुक्षुणा अनुष्ठेयेति प्रतीयते । न च क्वचिदङ्गत्वदर्शनात्
गुरुलघुविकल्पानुपपत्तेश्च व्यवहितसाधनत्वं कल्प्यम्; अधिकारिभेदेन व्यवस्थापनात् । तथा
च उपबृंहितं ब्राह्मे पुराणे -
अहिर्बुध्ध्ये च स्पष्टमुक्तम्
1. रूपानुभवे - अ ।
'शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्' ॥ इति । (ब्रा पु. ५३)
2. मुक्ति - आ ।
3. सुस्पष्टमुक्तम् - अ ।