This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
17
 
[स्वस्य भगवच्छरणागतिनैरन्तर्यप्रार्थना]

पारमार्थिक - भगवचरणारविन्दयुगलैकान्तिकात्यन्तिक-

श्रु. भा. - किमपेक्षितमित्यत्राह पारमार्थिक इति । अनुभवविशेषणम् ।

परमपुरुषार्थान्तर्भूतत्वात्, स्वयं परमपुरुषार्थत्वात्, अकृत्रिमत्वाद्वा पारमा- र्थिकत्वम् ।
अकृत्रिमत्वम् - -निरुपाधिकत्वम्, भक्तिविशेषणं वा पारमार्थिक शब्दः । चरणारविन्द
इति मातु' स्स्तन्यं[^1] पुत्रस्येव शेषभूतस्य प्राप्य[^2] मिति भावः । ऐकान्तिकत्वं फलान्तरार्थत्वा-
भावात् भगवदेक- विषयत्वम् । आत्यन्तिकत्वम् अत एव सदानुवृत्तिः, नित्ययुक्त इति

यावत्
 
GAGAWRYAGRVAURYAGKUKURUDURYAURYNUPUDURUPURUAURUA
 

र.र. - यद्वा, परमप्रयोजनभूताऽनुभवग्राह्यं परमभोग्यमित्यर्थः । एतेन परभक्त्यादिजननार्हत्वं
व्यज्यते । निर्दोषगुणवत्स्वामिचरणयोस्सेवकस्य भक्तयतिशयः स्यादित्यभिप्रायेण
भगवञ्चरणशब्दः । अरविन्दत्वरूपणञ्च उपायदशायामपि स्वादुत्वसूचकम् 'स भ्रातुश्चरणौ
गाढम्' (रा. अयो. ३१-२) 'यावन्न चरणौ भ्रातुः' (रा. अयो.९८-८) ।
 

'तस्य ताम्रतलौ तात! चरणौ सुप्रतिष्ठितौ ।

सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥
 

प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ' ॥ (म.भा.आर.१८६-११९,१२०)

इत्यादिष्विव अन्योन्ययोगादपि शोभमानत्वद्योतनाय युगलशब्दः ।
 

पारमार्थिकशब्दस्य परभक्त्यादिविशेषणत्वे अनुभवविशेषणत्वेऽपि परम- प्रयोजनत्वं,
भ्रमकैतवराहित्यं वा विवक्षितम् । ऐकान्तिकत्वं प्रयोजनान्तरा- नन्वयेन तदेकनियतत्वम्;
तत एव नित्यानुवृत्तत्वम् आत्यन्तिकत्वम् । अन्यार्थत्वे हि तत्सिद्धौ निवर्तेत ।
निरतिशयत्वम् आत्यन्तिकत्वम् इति चाहुः ।
 

 
 
 
[^
1]. स्स्तनम् - इ ।
[^
2]. प्राप्त इ ।