This page has been fully proofread once and needs a second look.

र.र. - तद्वदैकान्त्यमेव स्थापयति । यथा स्वाधिकारोचितपरिकरार्चने अनन्यत्वाविरोधः, तथेहापि -
'आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः ।
नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः' ॥ (पौ.सं.)
इति चोक्तम् । एवं घटकतया वरणेऽपि न विरोधः । अन्यथा गुरुभजन- तत्पुरस्कारादिकमपि विरुध्येत ।
अथ, 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्), (मुं.उ.१-२-१२) 'आचार्यमुपासीत'
(आप.ध.१६-१३) इत्यादिभिः तादर्थ्यात् तत्संगृह्यते; इदमपि[^1] पूर्वोक्तै- स्तथैवाविशेषात् । किञ्च श्रियः प्रपत्तिम्, 'चन्द्रां प्रभासाम्' (श्रीसू. ५) इति मन्त्रेणालक्ष्मीनाशनार्थं आमनन्ति । तथा ' ॠचस्सामानि यजूंषि सा हि श्रीरमृता सताम्' (तै ब्रा. ३-७) इति । या मुमुक्षूणां मोक्षहेतुर्विद्यैव लक्ष्मीः तदभावनाशोऽनया क्रियत इति तदर्थं शरण्याभिप्रायसंवादिनी
तन्महिषीप्रपत्तिः युक्तैवेति सिद्धम् ।
एवं सेयं[^2] साक्षात्परम्परया वा सर्वफलसाधिका । 'उदाराम्' (श्रीसू. ५) इति श्रौतं पदं ह्यनवच्छिन्नविषयम् । तच्च
'सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् ।
क्षिप्रप्रसादिनीं लक्ष्मीं [^3] शरण्यामनुचिन्तयेत्' ॥ इत्यादिभिः
स्वायम्भुवादिवचनैरुपबृंहितम् । व्याचख्युश्च 'ऐश्वर्यमक्षरगतिं परमं पदं वा' इत्यारभ्य 'कथय कोऽयमुदारभावः' (श्रीगु.र.को.५८) इति । व्यतिरेकमुखेन चैतत् स्थिरीकृतं चतुःश्लोक्याम्-
'श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादादृते ।
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्' ॥ (च.श्लो.३) इति ।
तत्किमत्रापेक्षितमित्यत्राह -पारमार्थिक इति । पारमार्थिकशब्दस्य
चरणारविन्दविशेषणत्वे अर्थशब्द प्रयोजनवाची । पारमार्थिकम्[^4] - परमार्थ इत्यर्थः ।
 
 
[^1]. इयमपि आ ।
[^2]. सेयं अ ।
[^3]. देवीं आ ।
[^4]. पारमार्थिकः - आ ।