This page has been fully proofread once and needs a second look.

र.र. - तद्वदैकान्त्यमेव स्थापयति । यथा स्वाधिकारोचितपरिकरार्चने अनन्यत्वाविरोधः,
 
तथेहापि -
 
16
 

'आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः ।
 

नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः' ॥ (पौ.सं.)

इति चोक्तम् । एवं घटकतया वरणेऽपि न विरोधः । अन्यथा गुरुभजन- तत्पुरस्कारादिकमपि
विरुध्येत ।
 

अथ, 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्), (मुं.उ.१-२-१२) 'आचार्यमुपासीत'

(आप.ध.१६-१३) इत्यादिभिः तादर्थ्यात् तत्संगृह्यते; इदमपि[^1] पूर्वोक्तै- स्तथैवाविशेषात् ।
किञ्च श्रियः प्रपत्तिम्, 'चन्द्रां प्रभासाम्' (श्रीसू. ५) इति मन्त्रेणालक्ष्मीनाशनार्थं आमनन्ति ।
तथा 'चस्सामानि यजूंषि सा हि श्रीरमृता सताम्' (तै ब्रा. ३-७) इति । या मुमुक्षूणां
मोक्षहेतुर्विद्यैव लक्ष्मीः तदभावनाशोऽनया क्रियत इति तदर्थं शरण्याभिप्रायसंवादिनी

तन्महिषीप्रपत्तिः युक्तैवेति सिद्धम् ।
 
2

एवं सेयं[^2] साक्षात्परम्परया वा सर्वफलसाधिका । 'उदाराम्' (श्रीसू. ५) इति
श्रौतं पदं ह्यनवच्छिन्नविषयम् । तच्च
 
-
 
गद्यत्रयम्
 

'सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् ।
 

क्षिप्रप्रसादिनीं लक्ष्मीं [^3] शरण्यामनुचिन्तयेत्' ॥ इत्यादिभिः

स्वायम्भुवादिवचनैरुपबृंहितम् । व्याचख्युश्च 'ऐश्वर्यमक्षरगतिं परमं पदं वा' इत्यारभ्य 'कथय
कोऽयमुदारभावः' (श्रीगु.र.को.५८) इति । व्यतिरेकमुखेन चैतत् स्थिरीकृतं चतुःश्लोक्याम्-
-
 
1. इयमपि आ । 2. सेयं अ ।
 

'श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादादृते ।
 

संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्' ॥ (च.श्लो.३) इति ।
 

तत्किमत्रापेक्षितमित्यत्राह
 
-पारमार्थिक इति । पारमार्थिक शब्दस्य
 

चरणारविन्दविशेषणत्वे अर्थशब्द प्रयोजनवाची । 'पारमार्थिकम्[^4] - परमार्थ इत्यर्थः ।
 

 
 
[^1]. इयमपि आ ।
[^2]. सेयं अ ।
[^
3]. देवीं आ ।
 
-
 

[^
4]. पारमार्थिकः - आ ।