This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
श्रु.भा.
 
15
 
-
 
अहमपि तेष्वेक इत्याह
 
KAUAWAYAVRÜNÜRÜNÜRGAWRYAGAGAWRYAÜRÜNÜRÜNÜRUAUDUT
 
र.र. वानरपरिषदि च एतदनुवदन् 'वायुसूनुराह' -
 
अनन्यशरणः-शरणमहं प्रपद्ये ॥ १ ।॥
 
अनन्य इति ।
 
'अलमेषा परित्रातुं राघवाद्राक्षसीगणम्' ॥ (रा. सुं. ५८-८८)
'ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥
 
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः' ॥ (रा. सुं. ५८-९१) इति ।
'पापानां वा शुभानां वा' (रा.यु. ११६-४५) इत्यादीनि च प्रभञ्जनसुतं प्रति तद्वाक्यानि ।
कुपितनरसिंहसमीपागतिभीताश्च प्रजापतिप्रभृतयः तामेव विश्वमातरमाश्रित्य तत्पुरस्कारेण
तमुपसेदुरिति पुराणप्रसिद्धम् । आहुश्च 'मातमैथिलि ! राक्षसीस्त्वयि तथैवार्द्राऽपराधास्त्वया
रक्षन्त्या' (श्रीगु.र.को.५०) इत्यादि ।
 
भवत्वेवमशरण्यशरण्यत्वं तस्याः भवतस्तेन किमायातमित्यत्र तदेकप्रपत्तियोग्यां
स्वावस्थां दर्शयति अनन्यशरण इति । 'अन्यच्चरणं यस्य नास्ति सोऽनन्यशरण:';
शरणम् - उपायः ।
 
'उपाये गृहरक्षित्रो: शब्दश्शरणमित्ययम् ।
 
वर्तते साम्प्रतन्त्वेष उपायार्थैकवाचकः' ॥ (अहि.सं.३७-३१)
इति व्यवस्थापनात् । एवमुत्तरत्रापि द्रष्टव्यम् । उत्तमपुरुषेणैव स्वान्वये सिद्धे अहम् इत्यधिकोक्त्या
स्वस्य च दुष्करोपायान्तराशक्तिस्सूच्यते । प्रपद्ये इत्यत्र यद्यपि गत्यर्थेन धातुना बुद्ध्यर्थेन
सता अध्यवसायमात्रमुपस्थाप्यते, तथाऽपि प्रमाणानुसारात् शरणशब्द तात्पर्याच्च
प्रार्थनाद्यन्वितभरन्यासं करोमीत्युक्तं भवति । प्रार्थ्यते चानन्तरं फलविशेषः । यस्तु
परस्परोपकारेण दक्षिणादानेन प्रशासनेन वा भरन्यासः, नासौ प्रपत्तिः ।
 
नन्विदं मुमुक्षोरेव, भगवद्व्यवच्छेदेन तदन्य' प्रपदने तदैकान्त्यं विहन्यात्, मैवम्;
यथा कर्मयोगादिकमनन्योपासनार्थतया उपादीयते, तथा अनन्यप्रपदनार्थतया उपादीयमानमिदं
 
1. वायुसूनुरेवमाह - आ । 2. तात्पर्यानुसाराञ्च - अ । 3. प्रपदनं आ ।