2023-04-07 05:35:52 by ambuda-bot
This page has not been fully proofread.
अखिलजगन्मातरम् - अस्मन्मातरम्-अशरण्यशरण्याम्,
श्रु. भा.
भगवन्तमलब्धवन्तः - अशरण्याः,
U
14
शरणागतिगद्यम् -
अखिलशब्द: स्वान्तर्भावपरः न 'ह्यस्मद्वर्जितमिति' भावः । शरण्यं
GAGAGRUAUACAURUAURYAURUAURUAGRUAŰRÜAURUPURUAÜSÜT
र.र. - मातरम्' (श्रीसू. १२) इत्यादिषूक्तमस्या मातृत्वं भगवतः पितृत्वेन समानविषयम्,
न हि तत् मदेकवर्जम् इदमस्या मातृत्वमित्यभिप्रायेण अखिलशब्दः ।
।
तदिदं विश्वमातृत्वप्रदर्शितं निरुपाधिकवात्सल्यं 'रिपूणामपि वत्सलस्य'
(रा.यु. ५०-५६) पत्युरनुरूपतमम् । तच्च हितचिन्तारहितेष्वहितचिन्तकेष्वपि कयाचिन्नयत्या
कदाचित्फलति । किं पुनरिदानीं हितचिन्तोन्मुखे मयीति भावः । दुस्सहनिरन्तरापराधे
दोषैकनिधौ रावणेऽपि हि सोन्मादे पुत्र इव जननीत्वेनैव जातवात्सल्या 'मित्रमौपयिकं
कर्तुम्', (रा.सुं.२१-१९) 'विदितस्स हि धर्मज्ञः, (रा. सुं. २१-२०) 'प्रसादयस्व त्वं चैनम्'
(रा. सुं. २१ - २०) इत्यादिभिस्सर्वाधिकं रहस्यमुपदिश्य, तद्भ्रमप्रशमने प्रयतते स्म ।
एवमखिलजगन्मातरमित्यन्तैः पदैश्चिकीर्षितायाः तत्प्रपत्तेरतिशयितामोघधर्मत्वं सूचितम् । यथोक्तं
काश्यपीये -
'नारायणात्मिकां देवीं श्रियं त्रैलोक्यमातरम् ।
भजमानो महाभाग ! परमो धर्म उच्यते' ॥ (का.सं) इति ।
अयञ्च तदात्मकत्वव्यपदे शतत्पत्नीत्वाभिप्रायेण । अत्र 'अस्मत्स्वामिन् !' (श.ग.)
इतिवदस्मन्मातरमित्यपि श्रीविष्णुचित्तादयः पठन्ति; व्याचक्षते च; 'यामुनमुनिवंशजननेन'
पुनश्च विशेषेण अस्मन्मातरम् इति ।
उक्तैस्स्वभावैस्सिद्धमपेक्षितानुगुणमाकारमाह अशरण्यशरण्याम् इति । येषां
मोक्षोपायनिष्पत्तिकामानां सर्वलोकशरण्योऽपि न भवेच्छरण्यः, तेषामप्यसौ शरण्या;
यथोक्तं त्रिजटया -
1. ह्यस्मद्वर्जमिति- इ ।
'भत्सिंतामपि याचध्वं राक्षस्यः ! किं विवक्षया ? ।
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्' ॥ (रा.सुं.२७-४५)
'प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
अलमेषा परित्रातुं राक्षस्यो महतो भयात्' ॥ इति । (रा.सु. २७-४४)